________________
To
धु
तौ
Sti
याञ्चामां बलदेवः
|
मिसमादिष्टधारणश्रमणान्तिके । आत्तदीक्षो बलः शैलशृङ्गस्थस्तप्यते तपः ॥२॥ युग्मम् । सप्तमममिकाद्याः स प्रतिमाः प्रतिपन्नवान् । तासां स्वरूपं विज्ञेयमित्थमागमभाषितम् ||३|| प्रथमे सप्तके दतिरेकैकाऽशनपानयोः ॥ द्वितीये द्वे स्युरेवं च सप्तमे सप्त सप्तके ॥४॥ एवमे कोनपञ्चाशद्दिनैर्भिक्षाशतेन च । षण्णवत्यधिकेन स्यादराद्धाऽसौ यथाविधि ॥ ५ ॥ स्यादष्टाष्टमिकाऽप्येवं चतुःषष्ट्या तु वामरैः । एकाशीत्या दिनैरेवं भवेनवनवम्यपि || ६ || तृणहारकाष्टहारवनच्छिद् द्भ्योऽन्नपानकम् । सोऽर्द्धमासादयो मासात् प्राप्य पारणकं व्यधात् ||७|| तृणकाष्ठादिहारेभ्यस्तपः काष्ठाजुषं च तम् । दिव्यरूपं परिज्ञायाक्षुभ्यन् सीमान्तपार्थिवाः ॥८॥ दध्युश्च कुरुते कोप, तपो | ऽस्माकमुपर्ययम् । कष्टं करोति राज्येच्छ्रुस्तत्तं विध्वंसयामहे ॥ ९ ॥ सन्नद्धबद्धकवचा, विविधायुधपाणयः । अनेकवाहनारूढास्ते | श्रीराममुपागमन् ॥ १०७॥ ततः सिद्धार्थदेवेन, रामर्षिचरणान्तिकं । महाविकरालवदना, महा भैरवदर्शनाः ॥११॥ क्षोदयन्तः क्षितिं कालायसाङ्कुशखैर्नखैः । मुक्तस्कन्धसटाः सिंहव्यूहास्तत्र विनिर्मिताः ॥ १२ ॥ युग्मम् ॥ मृगेन्द्रान् वीक्ष्य मर्चेन्द्रः स्तुत्वा नत्वा बलं मुनिम् । स्थानं निजं निवृत्यागुर्नुसिंहाख्यां त्ववाप सः ॥ १३ ॥ तस्य साम्यजुषो ध्यानरतेः स्वाध्यायसंजुपः । शान्ताः स्नेहं व्यधुर्नित्यं शत्रवोऽपि हि | जन्तवः || १४ || केचिद्भद्रकतां भेजुः श्रावकत्वं च केचन । केचिच्चानशनं केचिच्छिष्यवत्पर्युपासते ॥ १५ ॥ एको मृगः पुनर्जातिस्मरः संव गवांस्ततः । यत्र यत्र मुनिर्याति, तत्र तत्रानुयाति सः ॥ १६ ॥ अन्यदा बलदेवर्षिर्मासपारणकारणात् । प्राविशत्पुरि भिक्षार्थी, ददृशे चैकया स्त्रिया ॥ १७॥ साऽऽलोक्य कामपालर्षि, काममूर्त्तिविडम्बकम् । जगाम कामबाणानां, निकाममपि वेध्यताम् ॥ १८॥ निरूपयन्ती तद्रूपमसौ कूपतटस्थिता । कुंभकण्ठभ्रमात् क्षीरकण्ठकण्ठे गुणं न्यधात् ॥ १९ ॥ अदृढीकृतपाशायां तस्यां सोऽन्तिकमागमत् । तां संबोध्य निजं रूपं, निन्दन् व्यावृत्य निर्गतः ||२०|| निरियायाऽन्यदा चारदानुग्रहणहेतवे । रथकारपरीवारः पाथेयादियुगाययौ ॥ २१ ॥ तदादेश्या नराः | पारवध्याः सितपरश्वधैः । परः शतांस्तरुच्छिन्नानर्द्धच्छिनांश्च चक्रिरे ॥२२॥ बलर्षिरपि भिक्षार्थी, तेषु भोज्योद्यतेषु तु । पारणायागमत् पृष्ठे, सारङ्गोऽपि समागमत् ||२३|| निरीक्ष्य बलमायातं रथकारो व्यचिन्तयत् । अहो पुण्योदयो मे यदतारीद् द्युतदुर्मरौ ॥२४॥ अहो महानुपशमोsस्याहो रूपमहो महः । तत् कृतार्थोऽस्म्यहं भिक्षाकृते यदयमागमत् ॥ २५॥ अकस्मादागतायास्मै, मदीयसुकृतैः कृती | प्रासुभिक्षाप्रदानेन, करोमि स्वं विकल्मषम् ||२६|| ध्यात्वेति मूर्द्धनि करी, किरीटीकृत्य भावतः । प्रणनाम महीन्यस्तजानुमस्तक हस्तकः
॥ १२४ ॥