________________
श्री व्रज्या प्रद्युयवृत्ती १२३॥
शनमाम्यानेऽन्यदा वाक्यं, धम्मपि द्विजाऽवदत् । पालको बालकाऽभापि, स्कन्दकन मनीषिणा ॥५॥ पिकालो जिन दय, तदुक्तापर्धग गरी । जिनप्रणीते धा, च, बिसंवादः सतां कुतः ? ॥६॥ तत्त्वत्र यं प्रतिष्ठाय, कृतः सद्या निगुत्तरः । कुमारमंप वागमात्राष्ट्रवे गृहमन्म:
आम्कन्दकस्तु भवारवाडतरोऽसौ वालसालत' श्रीमुलते ममायाते. योधपञ्चशीयुत्तः ।।८।। जग्राह मोदतो दीक्षा, मूरित्वे च प्रतिष्ठितः । कुम्भकारकटं गन्तुं, पप्रच्छ प्रभुमन्यदा ॥९॥ युग्मम् ।। प्रभुः प्राणान्तिकं प्राहोपसर्ग तत्र सोऽब्रवीत् । आगधकाः? प्रभुः प्रोचे, त्वां विना:राधकाः परे ॥१०॥ ज्ञातेऽपि सपरिवारो, भवितव्यानुभावतः । जगाम स्कन्दकाचार्यः, कुम्भकारकटे पुरे ॥११॥ ज्ञात्वा स्कन्दकमायात, पालकः स्वहितैनरैः । यतिवासोचितोद्यानेष्वायुधानि न्यधापयत् ॥१२॥ समायातं ममाकर्ण्य, स्कन्दकं दण्डकिर्तृपः । प्रणन्तुमागमद् द्वेधा, पुरन्दरयशोयुतः ॥१३॥ वन्दित्वा सादरं भक्त्या, तस्माच्चाकर्ण्य देशनाम् । स्तुवन्, पुगन्तरायातो, विज्ञप्तस्तेन पाप्मना ॥१४॥ नापेक्ष्यः । मेवकभक्तैः, स्वस्वामी व्यसने पतन् । सर्वनाशोचितस्यास्य, तेन विज्ञप्यसे प्रभोः ।।१५।। स्कन्दक: सैप ते राज्यं, जिघुक्षुः समुपागतः । सहस्रयोधिभिः पञ्चशत्या पाषण्डिभिवृतः ॥१६॥ स स्कन्दके समारूढमत्सरच्छन्नसत्यदृक् । प्रत्यायितुं नृपं तत्रोद्याने शस्त्राण्यदर्शयत् ॥१७॥ तद् दृष्टवा दण्डकी रोषाद्दण्डायेषां तमादिशत् । पालकः स्वेच्छया यन्त्रे, सोऽपिपत्तास्तिलानिव ॥१८॥ सर्वे निष्पील्य कर्माणि, पील्यमानेऽङ्गकेऽथ ते । अन्तकृत्केवलीभावमाप्यागुः परमं पदम् ॥१९॥ अथ बालमुनेः काले, पालकं स्कन्दकोऽब्रवीत् । मां पिष्ट्बा प्रथमं वालमेतं पिण्डि ततः परम् ॥२०॥ पालको बालके साधु, तं यन्त्रे प्रथम न्यधात् । स कृताराधनाघ्यानसन्धानो निवृतिं ययौ ॥२१॥ स्कन्दकः पीड्यमानस्तु, निदानं कृतवानिति । भूयासं देशभूपालपालकप्लोषहेतवे ॥२२॥ धर्मध्वजं च रक्तात्तं, भुजभ्रान्त्या तदीयकम् । नभसा शकुनी नीत्वा, तत्याजान्तःपुरोपरि ॥२३॥ पुरन्दरयशादेवी, प्रत्यभिज्ञाय तं पुनः 1 उवाच किमिदं ? ज्ञात्वा, कञ्चुक्यूचे च तत्तथा ॥२४॥ | कातिश्वपचं साधौ, दुर्वचं किमिदं त्वया ? । विहितं दण्डके ! देवी, क्रुधेति नृपति जगौ ॥२५॥ कर्मचण्डालता चक्रे, प्रचण्डा दण्डके ! त्वया । यद्वाक्येनेदृशी धिक् तं, द्विजातिं चाध माधमम् ॥२६॥ निन्ये शासनदेव्याऽसौ, बदन्तीति नृपान्तिकात् । ब्रतं श्रीसुव्रतस्वामिसमीपे । च समाददे ॥२७॥ स्कन्दकोऽग्निकुमारेषूत्पद्याभ्येत्य विरोधतः । सराष्ट्र दण्डकं दग्ध्वा, दण्डकारण्यमातनोत् ॥२८॥
अथ याब्धापरीषहदृष्टान्तः, तथाहि द्वारकादाहे, साते यादवक्षये | विष्णुलोक गते विष्णौ, सिद्धार्थसुरबोधितः ॥१॥ श्रीमन्ने
॥१२३॥