________________
शय्यायां भ्रातरौ
ग.
इवात्मनः । अंगाराः प्रज्वलन्तोऽस्य, न्यस्ताः शिरसि तैः क्रुधा |७|| कृत्वेति ते ययुः पापा, मुनिस्तु शमनिस्तुषः । दुःसहं सहमानस्तं, दध्यावध्यामधीरिति ।।८।। अमी शिरोऽधिरूढानां, कर्मणां कृतकर्मणाम् । दाहायाग्निं विमुचन्तो, मम साहाय्यकारिणः ॥९॥ मदीये चरणे कर्म, स्थितं जाड्यसमुद्भवम् । विपादिकामिवांगारैस्तापयन्तो हिता ह्यमी ॥१०॥ दहतो दहनेनैते, कर्मगुल्म मदीयकम् । चिकित्सका इवातुच्छ, पूज्या इति विचिन्तय ॥११॥ दीप्यमानेष्टिकापाको, यस्याग्रे हिमशीतल: 1 सोऽपि सोढस्त्वया जीव !, पुरा नरकपावकः ॥१२॥ मागरोपमसंख्यातं, कालं दुःखानि सासहि । मुहूर्त्तमात्रे दुःखे तत्, मा जीव ! क्लीबतां कृथाः ॥१३॥ चिन्तयन्नित्ययं नित्यभावनापावनात्मकः । ध्यानाग्निदग्धकर्मेधाः, परमं पदमासदत् ॥१४॥
अथ शय्यापरीषहोदाहरणम्- वत्सनीवृत्ति कौशाम्ब्यां, यज्ञदत्तद्विजन्मनः । सोमदत्तसोमदेवाभिधावात्मभुवावुभौ ॥१॥ निर्विण्णकामभोगौ तौ, सोमभूतिः मुनेः पुरः । व्रतं जगहतुः कालादभूतां च बहुश्रुतौ ॥२॥ अन्यदा स्वजनान् द्रष्टुमागतौ तौ महामुनी। गतबन्ताववन्त्यां स्तस्तयोर पितरौ तदा ॥३॥ पिबन्ति विषये तत्र, ब्राह्मणोऽपि परिश्रुतम् । अविज्ञातस्वरूपत्वादगृहीतां च तां मुनी ॥४॥
ऋजुत्वाच्च निपीतायां, र लापौ तदार्तितः । दध्यतुः कृतमावाभ्यां, धिगेतदसमंजसम् ॥५॥ प्रत्याख्यानं ततो युक्तं, भक्तस्येति विचिन्त्य IOतो । तटे तटिन्याः कस्यात्, काष्टानामुपरि स्थितौ ।।६।। पादपोपगमं तत्र, यतिनोः श्रितयोस्तयोः । अकालवर्षणेनाशु, नदीपूर: 10
समागतः ||७|| काष्ठास्तौ च सद्ध्यानकाष्ठारूढौ च तो मुनी । हृतौ पूरेण दूरेण, नीतौ यावन् महार्णवम् ॥८॥ लहरीप्रेरणं
पुरानीतकाष्ठाभिघातनाम् । यादोभिप्रेसनं चापि, सहेते तो समाहितौ ॥९॥ असह्यं तो विषयेति, तथा शय्यापरीषहम् । PAY स्वर्गतावित्थमपरैः, सहाय्यापरीषहः ॥१०॥ ॐ अथाक्रोशपरीषदृष्टान्तः, तथाहि क्षपकः कश्चिद्विकर्मव्रश्चनोद्यतः । गुणावर्जितया देवतया नित्यं प्रणम्यतो ॥१॥ उच्यते च त्वया Mof कार्यः, कार्यस्य कथनान्मयि । प्रसादः सर्वदा दत्तावसादः सर्वकर्मणाम् ॥२॥ अपरेधुः स केनापि, शप्तो मिथ्यादृशा दृशा । रक्त्तया
वीक्षमाष्पस्तं, सोऽपि प्रत्यशपन्मुनिः ।।३।। तेनाथ हन्तुमारब्धो ?, मुनिः प्रतिजधान तम् । क्षुत्क्षामकुक्षिः स्थूलेन, परेण भुवि पातितः ॥४॥ ताडितश्च मुखे क्षिप्त, रजोऽस्य च रजस्विना । गतेऽस्मिन् स मुनिस्त्वागान्, मन्दं मन्दमुपाश्रये ॥५॥ देवतापि दिवान्ते सा, तं
CE
१२०॥