SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्य यावन्नाद्यापि निखिलकर्ममलापगमस्ताबद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा तस्य विज्ञप्तिरजम्भते, सा च कचित्कदाचित्कञ्चिदनेकप्रकारा, उक्तञ्च-"मलविद्धमणेयकिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मविशप्तिस्तथाऽनेकप्रकारतः ॥१" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिमटरूपकाभिव्यक्तिहपजायते तदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो नि:शेषावरणप्रहाणावशेषदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायप्रपञ्चसाक्षात्कारिणी विज्ञप्तिरुल्लसति, उक्तञ्च-"यथा जात्यस्य रनस्य, निःशेषमलहानितः । स्फुटकरूपाऽभिव्यक्तिविज्ञप्तिस्तद्वदालनः ॥१॥" इति, येज्ञानिनते यज्ञानिनन्यज्ञानिनो वा, तत्र ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये त्र्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभज्ञानिनश्च । योगदारे मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगिनश्च, तत्रायोगिनः शैलेशीमवस्था प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत् , उपपात एतेष्वधःसप्तमनरकादिवजेभ्यः, उक्तश्च---"सत्तममहिनेरइया तेऊ वाऊ अर्थतरुव्वट्टा । नवि पावे माणुस्सं तहेवऽसंखाउया सब्वे ॥ १॥" इति, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्पतस्त्रीणि पल्योपमानि, समुपातमधिकृत्य मरणचिन्तायां समवहता अपि म्रियन्ते असमवहता अपि, च्यवनद्वारेऽनन्तरमुद्रा सर्वेषु नैरयिकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनुत्तरोपपातिकपर्यवसानेषु गच्छन्ति, 'अस्थेगइया सिझति जाव अंतं करेंति इति, अस्तीति निपातोऽत्र बहुवचनार्थः, सन्त्येकका ये निष्ठितार्थाः भवन्ति यावरकरणात् "बु. ज्झंति मुचंति परिनिव्वायंति सम्बदुक्खाणमंतं करेंनी"ति द्रष्टव्यं, तत्राणिमायैश्वर्यात्या तथाविधमनुष्यकृत्यापेक्ष्या निष्ठितार्था इति, अ १ सप्तममहीनैरयिकाः तेजस्कायिका वायुकायिका अनन्तरोदत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्येयबषीयुष्काः सर्वे ॥१॥ ALSA925A4 %
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy