________________
सियस्स नत्थि अंतरं, सातीयस्स सपज्जवलियम्स जह० अंतो० उक्को० अणतं कालं जाव अवहं पोग्गलपरियां, मिच्छादिट्ठिस्स अणादीयस्स अपज्जवसियस्स णत्थि अंतरं, अणातीयस्स सपज्जवलियम्स नत्थि अंतरं, साइयस्स सपज्जवसियस्स जह० अंतो० उक्को० छावट्ठि सागरीमाई सातिरेगाई, सम्मामिच्छादिट्ठिस्स जह० अंतो० उको० अनंतं कालं जाव अब पोग्गलपरियहं देणं । अप्पाबहु० सत्र्वत्थोवा सम्मामिच्छादिट्ठी सम्मदिट्ठी अनंतगुणामिच्छादिट्टी अनंतगुणा ॥ ( सू० २५० )
'तत्थ णं जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तस्त्रिविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्ताद्यय-सम्यग्दृष्टयो मिध्यादृष्टयः सम्यग्मिथ्यादृष्टयश्च, अमीषां शब्दार्थभावना प्राग्वत् ॥ सम्प्रति कार्यस्थितिमाह – 'सम्मदिट्टी णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सम्यग्दृष्टिर्द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः क्षायिकसम्यग्दृष्टिः, सादिको वा सपर्यवसितः क्षायोपशमिकादिसम्यग्दर्शनी, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त कर्म्मपरिणामस्य विचित्रलेनैतावत: कालादू पुनमिध्यात्वगमनात्, उत्कर्षतः षट्षष्टिः सागरोपमाणि तत ऊर्द्ध नियमतः क्षायोपशमिकसम्यग्दर्शनापगमात् । मिध्यादृष्टिप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! मिध्यादृष्टिविविधः प्रज्ञप्तस्तयथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र यो ऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त, तावता कालेन पुनः कस्यापि सम्यग्दर्शनलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्स र्विण्य वसर्पिण्यः कालतः, क्षेत्रतोऽपाऊँ पुगलपरावर्त्त देशोनं, पूर्वप्रतिपन्नसम्यक्त्वस्यैतावतः कालादूर्द्ध पुनरवश्यं सम्यग्दर्शनलाभात्,