________________
उत्कर्षतो हो समय त्रिसामयिकया एवं विग्रहगतेर्षाहुल्येनाश्रयणात् आह च चूर्णेकृत् -"ययपि भगवत्यां चतुःसामयि कोनाहारक उक्तस्तथाऽन्यत्र नाङ्गीक्रियते, कदाचित्कोऽसौ भावो येन, बाहुल्यमेवानीक्रियते, बाहुल्याच समयद्वयमेवेति । केवल्यनाहारकसूत्रं पाठसिद्धं भगवानाह - गौतम ! केवल्यनाद्दारको द्विविधः प्रज्ञप्तस्तद्यथा - मयस्थकेवल्यनाहारकः सिद्धकेषस्यनाहा|रकः || 'सिद्ध केवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सादिकापर्यवसितः सिद्धस्य साद्य पर्यव [सिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् ॥ 'भवत्थ केवलिअणाहारए णं भंते!' इत्यादि प्रनसूत्रं सुगनं, भगवानाह - गौतम ! भवस्थ केवल्यनाहारको द्विविधः प्रज्ञप्तः - सयोगिभत्रस्थ केवल्यनाहारकोऽयोगिभवस्थ केवल्यनाहारकञ्च तत्रायोगिभवस्थ केवल्य[नाहारकप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगित्वं नाम हि शैलेश्यवस्था तस्यां नियमादनाहारक औदारिकादिकाययोगाभावात्, शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्त, नवरं जधन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् ॥ 'सजोगि भवत्थ केवलिअणाहारए णं भंते!' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! अ अघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिक केवलिसमुद्घातावस्थायां तृतीयचतुर्थपश्चमरूपाः तेषु केवलकारण काययोगभावान्, उक्त - "कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समय त्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥ १ ॥” साम्प्रतमन्तरं चिन्तयन्नाह - 'छउमत्थाहारयस्स णं भंते!' इत्यादि, छद्यस्याहारकस्य भदन्त ! अन्तरं कालतः कियचिरं भवति ?, भगवानाह - गौतम ! जघन्येनैकं समयमुत्कर्षतो द्वौ समयौ, यावानेव हि कालो जघन्यत उत्कर्षत छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकालः, स च कालो जघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायां विलासविक्यां विमहगतौ द्वौ समयाक्त्यिाहारकस्या