________________
FARNAGAR
सर्व शरीरमादिना सह वर्चते तथाऽपि सादिखविशेषणान्यथाऽनुपपत्त्या विशिष्ट एवं प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तम्-उत्सेधबहुलमिति, इदमुक्तं भवति-यत्संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत्सादीति, अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते, तप्तः साचीव यत्संस्थानं, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टमुपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति, तथा यत्र शिरोमीवं हस्तपादादिकं च यधोक्तप्रमाणलक्षणोपेतं उरउदरादि च मण्डलं तत्कुजं संस्थान, यत्र पुनरुदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीनं तद्वामन, यत्र सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डम् , उक्तश्च- समचउरंसे नगमोहमंडले साइ खुज वामणए । इंडेवि य संठाणे जीवाणं छम्मुणेयब्बा ॥ १॥ तुलं विस्थाडबहुलं उस्लेहबहुं च मडहकोहं च । हेटिल्लकायमडहं सम्वत्थासंठियं हुंड ।। २॥" लेश्याद्वारे पडपि लेश्याः, शुधलेश्याया अपि सम्भवात् , समुद्घाताः पञ्च, वैक्रियसमुद्घातस्यापि सम्भवान् , सञ्जिद्वारे सम्झिनो नो अ. सब्जिनः, वेदद्वारे त्रिविधवेदा अपि, स्त्रीपुरुषयोदयोरप्यमीयां भावात् , पर्याप्तिद्वारे पञ्च पर्याप्तयो, भाषामन:पर्याप्स्योरेकत्वेन विवक्षणात् , अपर्याप्तिचिन्तायां पश्चापर्याप्तयः, दृष्टिद्वारे त्रिविधदृष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिध्यादृष्टयश्व, दर्शनद्वारे त्रिविधदर्शना अपि, अवधिदर्शनस्यापि केषाश्चिद्भावात् , ज्ञानद्वारे त्रिज्ञानिमोऽपि, अवधिज्ञानस्यापि केषाश्चिद्भावात् , अ. ज्ञानचिन्तायामशानिनोऽपि, विभङ्गस्यापि केषाश्चित्सम्भवात् , अवधिविभाडो च सम्यग्मिथ्याष्ट्रिभेदेन प्रतिपत्तव्यो, उक्तश्च-"स
१ समचतुरस्त्रं न्यग्रोधपरिमण्डलं सादि कुन वामनम् । हुण्डमपि च संस्थानं जीवानां षड् मातव्यानि ॥ ५ ॥ तुल्यं बहुबिस्तारं उत्सेधबहुलं च मडमकोष्ठं च । अषसनकायमडमं सर्वत्रासंस्थित हुण्डम् ॥ २॥