________________
कल
** ACHAR
स्थित्यादि चिचिन्तयिषुराह-'मुहुमस्स णं भंते' इत्यादि, सूक्ष्मस्य सामान्यतो निगोदरूपस्यानिगोदरूपस्य वा भदन्त ! कियन्तं कालं * स्थितिः प्रज्ञप्ता, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्त, नवरमुत्कर्षतो विशेषाधिकमवसातव्यम् , अन्यथोत्कर्षायोगात् । एवं सूक्ष्मपृथिवीकायाकायिकतेजस्कायिकवायुकायिकवनस्पतिकायसूक्ष्मनिगोदविषयाण्यपि षट् सूत्राणि वक्तव्यानि, अथ || सूक्ष्मवनस्पतिर्निगोदा एव ततस्तत्सूत्रेणैव गतमिति किमर्थ वृथग निगोदसूत्रं ?, तद्युक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात् , सूक्ष्मवनस्पतयो हि जीवा विवक्षिताः, सूक्ष्मनिगोदास्तु प्रत्येकमनन्तानां जीवानामाधारभूताः शरीररूपास्ततो न कश्चिदोषः, उक्त च--"गोला य असं
जा असंखनिगोदो य गोलओ भणिओ। एकिमि निगोए अणंतजीवा मुणेयवा ॥१॥ एगो असंखभागो वह उन्बकृणोषवामि । एगनिगोदे निचं एवं सेसेसुवि स एव ॥ २॥ अंतोमुहत्तमेत्तं ठिई निगोयाण जंति निहिट्ठा । पलटुंति निगोया तम्हा अंतोमुहुत्तेणं ॥ ३॥" आसामक्षरगमनिका-सूक्ष्म निगोदैः सकल एव लोकः सर्वतो व्यानोऽअनचूर्णपूर्णसमुद्वत्, तस्मिन्नित्थं निगोदैयाप्ते लोके निगोदमात्रावगाहना असक्येया निगोदा वृत्ताकारा बृहत्यमाणा गोलका इति व्यपदिश्यन्ते, निगोद इति च नाम अनन्तानां जीवानामेकं शरीरं, तत उक्तम्-असल्या गोलाः, एकैकस्मिंश्च गोलकेऽसल्या निगोदा एकैकश्च निगोदः अनन्तजीव इति, एकस्मिंश्च निगोदे येऽनन्ता जीवास्तेषामेकोऽसयतमो भागः प्रतिसमयमुद्वर्ततेऽन्यश्वोत्पद्यते, तथा हि विवक्षिते समये विवक्षितस्य निगोदस्यैकोऽसहयतमो भाग उद्वर्ततेऽन्यश्चासत्यतमो भागस्तस्मिन्नपूर्व उत्पद्यते, द्वितीयेऽपि समयेऽन्योऽसहयेयभाग उद्वत्तेते | अन्यश्चापूर्व उत्पद्यते, एवं सकलकालमनुसमयमुद्वर्त्तनोपपाती, अत एव एगनिगोदे निश्चमिति नित्यग्रहणं, यथा चैकस्मिनिगोदे तथा सर्वेष्वप्यसोयेषु सर्वलोकव्यापिषु निगोदेषु प्रतिपत्तव्यं, सर्वेषामपि च निगोदानी निगोदजीवानां स्थितिर्विनिर्दिष्टाऽन्तर्मुहूत्तैमात्र