________________
CRICA-MATHS
परम्परया वनस्पतिपुत्पादादवसातव्यः, तथा चाह-वनस्पतिकालः, स च प्रागेवोक्तः । तिर्यन्योनिविषर्य प्रभसूत्र पूर्ववत, निर्वचनंजघन्येनान्तर्मुहूर्त, तच कस्यापि तिर्यक्लेन मुला मनुष्यभवेऽन्तर्मुहूर्त स्थित्वा भूयस्तिर्यक्त्वेनोत्पयमानस्य द्रष्टव्यं, उत्कर्षतः सातिरकं सागरोपमशतपृथक्त्वं, तच्च नैरन्तर्येण देवनारकमनुष्यभवभ्रमणेनावसातव्यं । मनुष्यविषयमपि प्रश्नसूत्रं तथैव, निर्वचनं-जयन्येनान्तर्मुहूर्त, तच्च मनुष्यभवादुद्धृत्य तिर्यग्भवेऽन्तर्मुहू स्थित्वा भूयो मनुष्यत्वेनोत्पद्यमानस्यावसातव्यं, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुतो वनस्पतिकालः । देवविषयमपि प्रश्नसून सुगम, निर्वचनं जघन्येनान्तर्मुहूर्त, कश्चिदेवभवाम्युला गर्भजमनुव्यखेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्ठसज्ञानोपेतस्तथाविधस्य श्रमणस्य श्रनणोपासकम्य वाऽन्ते धर्यमार्य वचः श्रुत्वा धर्मध्यानोपगतो गर्भस्य एव कालं करोति कालं च कृत्वा देवेषूत्पद्यते तत एवमन्तर्मुहूर्त, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो यथोक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः ॥ साम्प्रतमल्पबहुत्वमाह-एएसि णमित्यादि प्रभसूत्रं पाठसिद्धं, भगवानाह-गौतम सर्वस्तोका मनुष्याः, श्रेण्यसाध्येयभागवर्जिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्चो नैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यत्प्रथमं वर्गमूलं तहितीयेन वर्गमूलेन गुण्यते गुगिते च सति यावान प्रदेशराशिर्भवति तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशा|स्तावत्प्रमाणस्वात्तेषां, तेभ्यो देवा असङ्खवेयगुणाः, व्यन्तराणां ज्योतिष्काणां च नैरयिकेभ्योऽप्यसङ्ख्येयगुणतया महादण्डके पठित्तवान, तेभ्योऽपि तिर्यच्चोऽनन्ताः, वनस्पतिजीवानामनन्तानन्तलात् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्विधप्रविपत्ती विमानाधिकारे द्वितीयो वैमानिकोद्देशकः समाप्तः, तत्समाप्तौ च समाप्ता चतुर्विधा प्रतिपत्तिः ॥