________________
AAPL
| भगवानाह-गौतम! 'थिरमणिद्धसुकुमाला फासेणं पण्णत्ता' इति स्थिराणि नतु मनुष्याणामिव विशरारुभावं बिभ्राणानि मृदूनि-अकठिनानि स्निग्धानि-स्निग्धच्छायानि नतु रूक्षाणि सुकुमाराणि नतु कर्कशानि ततो विशेषणसमासः, सर्शन प्रज्ञापानि, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि ॥ साम्प्रतमुच्छासप्रतिपादनार्थमाह--सोहम्मी'त्यादि, सौधर्मेशानयोभदन्त ! कल्पयोर्देवानां कीदृशाः पुद्गला उच्छासतया परिणमन्ति?, भगवानाह-गौतम! ये पुद्गला इटा: कान्ता: पिया मनोज्ञा | मनापा एतेषां व्याख्यानं प्राग्वत् ते तेषामुच्छासतया परिणमन्ति, एवं तावद्वाच्यं यावदनुत्तरोपपातिका देवाः । एवमाहारसूत्राण्यपि ॥ सम्प्रति लेश्याप्रतिपादनार्थमाइ-'सोहम्मी'यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्या: प्रज्ञप्ता:?, भगवानाह-गौतम! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृल प्रोच्यते, यावता पुनः कथञ्चित्तथाविधद्रव्यसम्पर्कतोऽन्याऽपि लेश्या यथासम्भवं प्रतिपत्तव्या, सनत्कुमारमाहेन्द्रविषयं प्रश्रसूत्रं सुगम, भगबानाह-गौतम! एका पालेश्या प्रज्ञप्ता, एवं ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगम, निर्वचनं-गौतम! एका शुक्ललेश्या ग्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः, उक्तश्व-"किण्ठानीलाकारतेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयब्बा ।। १ ।। कप्पे सणकुमारे भाहिंदे चेत्र बंभलोए य । एएसु पम्हलेसी तेण|
परं सुकलेसा ॥२॥” सम्प्रति दर्शनं चिचिन्त गिषुराह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त! कल्पयोर्देवा णमिति वाक्यालप्रकारे किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिध्यादृष्टयः?, भगवानाह-गीतम! सम्यग्दृष्टयोऽपि मिश्यादृष्टयोऽपि सम्पग्मिध्यादृष्ट
योऽपि, एवं यावदू वेयकदेवा:, अनुत्तरोपपातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्याष्टयो नापि सम्यग्मिथ्यारष्ट्रयः तेषां तथास्वभावत्वात् ।। सम्प्रति ज्ञानाझानचिन्तां चिकीर्षुराह-'सोहम्मी'त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! ज्ञानिनोऽप्यज्ञानिनो