________________
SHAR RAE%
दीनामसम्भवात् , तथा चाह-'नेवट्ठी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा-पीवाधमनिर्नापि नायूंषि-शेषं शिराजालं,5/ किन्तु ये पुद्रला इष्टाः कान्ता: प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वत् ते तेषां साततया परिणमन्ति ततः संहननाभावः, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां देवानां || सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसाणेस' इत्यादि प्रसूत्र सुगम, भगवानाह-गौतम! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तकथा-भवधारसीयानि उत्त(वैक्रियाण च, तत्र यद् भवधारणीयं तत्समचतुरस्रसंस्थानसंस्थितं प्रज्ञप्तं, देवानां भवप्रत्ययतः प्रायः शुभनामकर्मोदयभावान , तत्र यदुत्तरवैक्रियं तत् नानासंस्थानसं. स्थितं प्रज्ञतं, तस्येच्छया निवर्त्यमानत्वात् , एवं तावद्वक्तव्यं यावदच्युतः कल्पः, 'विजगदेवाण'मित्यादि प्रसूत्रं सुगम, भगवा-1 नाह-गौतम! प्रैधेयकदेवानामेकं भवंधारणीयं शरीरं तच्च समचतुरस्रसंस्थानसंस्थितं प्रज्ञ, एबमनुत्तरोपपातिसूत्रमपि । अधुना। वर्णप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि ?, भगंवानाहूगौतम! कनकत्वगयुक्तानि कनकत्वगिव रक्ता आभा-छाया येषां तानि तथा चणेन प्रज्ञप्तानि, उत्तप्पकनकवर्णानीति भावः, एवं शेपसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसरतुल्यावदातवर्णानीति भावः, ततः परं || लान्तकादिषु यथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च-"कणगत्तयरत्ताभा सुरवसभा दोसु होवि | | कप्पेसु । तिसु होंति पम्हगोरा तेण परं सुकिला देवा ॥ १॥" सम्प्रति गन्धप्रतिपादनार्थमाह--'सोहम्मी'त्यादि प्रश्रसूत्रं सुगम, भगवानाह-गौतम ! 'से जहानामए-कोटपुडाण वा' इत्यादि विमानबद्भावनीय, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनाम् । सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त! कल्पयोर्देवानां शरीरकाणि कीरशानि स्पर्शन प्रज्ञतानि,
EXE