________________
नापि केनाप्यपहृताः स्युः तथा चाह- 'नो चेत्र णं अवहिया सिया' एवं निरन्तरं तावद्वतव्यं यावत्सहस्रारकल्पदेवा:, ' आणयपाणय आरणअच्चुएसु' इत्यादि प्रश्नसूत्रं सुगमं भगवानाह - गौतम! आनतप्राणतारणाच्युतेषु कल्पेषु देवा असलेयाः, ते च | समये समय एकैकापहारेणापहियमाणाः पत्योपमस्य- क्षेत्रपल्योपमस्य सूक्ष्मस्यासोयभागमात्रेण कालेनापयिन्ते, किमुक्तं भवति ? -सूक्ष्मक्षेत्रपल्योपमा सोयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवन्तीति, एवं मैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः || स प्रति शरीरावगाहनामानप्रतिपादनार्थमाह – 'सोहम्मीसामु णं भंते!" इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां 'किंमहालया' इति किं महती शरीरावगाहना प्रशमा ? भगवानाह - गौतम! द्विविधा प्रज्ञता, तद्यथा-भवधारणीया उत्तरक्रिया च तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलाये यमागमात्रा उत्कर्षतः सप्त रत्नयः, तत्र या सा उत्तरवैक्रिया सा जघन्यतोऽङ्गुलस्य सकोयं भागं यावत् न त्वसयेयं तथाविधप्रयत्नाभावान्, उत्कर्षत एक योजनशतसहस्रं एवं तावद्वाच्यं यावदन्युतकलो, नवरं स नत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया षड् स्वयः, ब्रह्मलोकलान्तकेषु पश्च महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणवारणाच्युतेषु त्रयः, 'गेवेज्जगदेवा णं भंते!" इत्यादि, वैवेयकदेवानां भदन्त किंमती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गौतम! मैवेयकदेवानामेकं भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरबैक्रियं शक्तौ सत्यामपि प्रयोजनाभावात्तरकरणात् तदपि च भवधारणीयं जघन्यतोऽङ्गुलायेय भागमात्रमुत्कर्षतो द्वौ रत्नी, एवमनुत्तरोषपातसूत्रमपि वक्तव्यं नवरमुत्कर्षत एका रनिरिति वाच्यम् ॥ सम्प्रति संहननमधिछत्याह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि' किं संहननं येषां तानि तथा प्रज्ञप्तानि ?, भगवानाह - गौतम ! षण्णां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहननस्या स्थिरचनालकत्वात् तेषां चास्थ्या