________________
महामाण्डलिकः स एवानेकदेशाधिपतिस्तत्स्कन्धाबारेषु, ग्रामनिवेशेषु इत्यादि, प्रसति चुख्यादीन गुणानिति यदिवा गम्य: शासनसिद्धानामष्टादशानां कराणामिति प्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुपाकारनिबद्धं खेट, क्षुलप्राकारवेष्टितं कर्बटम् , अर्द्धतृतीयगव्यूतान्तर्घामरहितं महम्ब 'पण'त्ति पट्टनं पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत्पट्टनं यत्पुनः शकदैोटकैनोंभिर्वा गम्यं तत्पत्तनं यथा भरुकच्छम्, उक्तं च पित्तनं शकदैर्गम्यं, घोटकैनौभिरेव च । नौभिरेव तु यद्गम्यं, पड़नं तत्प्रचक्षते ॥१॥" द्रोणमुखं-प्रायेण जलनिर्गमप्रवेशम् , आकरो-हिरण्याकरादिः आश्रमः-तापसावसथो. पलक्षित आश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाविष्ठानं नगरम्, 'एएसि ण मित्यादि, एतेषां चक्रवर्तिस्कन्धाचारादीनामेव विनाशेषूपस्थितेषु 'एस्थ गीति एतेषु चक्रर्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्छति, सा च जघन्यतोऽकुलासयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतच्चोत्पादप्रथमसमये वेदितव्यम् , उत्कर्षतो द्वादश योजनानि-द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूपं द्वादशयोजनप्रमाणदेयानुरूपं 'विक्वंभबाहाल्लेणं ति विष्कम्भश्व बाहल्यं च विष्कम्मबाह्यं, स| माहारो द्वन्द्वः, तेन, विष्कम्भो-विस्तारो बाहत्यं च स्थूलता, भूमि दालित्ता में विदार्य समुत्तिष्ठति, चक्रवर्तिस्कन्धाबारादीनामधस्ताद् भूमेरन्तरुत्पद्यत इति भावः, सा चासञ्जिनी-अमनस्का संमूच्छिमलात् , मिथ्यादृष्टिः सासादनसम्यक्त्वस्यापि तस्या असम्भवात् , अत एवाज्ञानिनी, अन्तर्मुहूर्ताद्धायुरेव कालं करोति । अत्थेगझ्या अंगुलंपी'त्यादि, अस्तीति निपातोऽत्र बहुवचनामिधायी, ततोऽयमर्थ:-सन्त्येककाः केचन महोरगा येलमपि शरीरावगाहनया भवन्ति, इहाङ्गलमुच्छ्याङ्गालमवसातव्यं, शरीरप्रमाणस्य धिन्समानत्वात् , सन्त्येकका येलपृथक्विका अपि-पृथक्त्वं विप्रभृतिरानवभ्य इति परिभाषा अङ्गलपृथकवं शरीरावगाहनमानमे