________________
CERITAMARRIA
शरीरावयव विशेषाकृतिः सा विद्यते येषां ते मुकुलिन:-स्फटाकरणशक्ति विकला इत्यर्थः, अत्रापि पशब्दो स्वगतानेकभेदसूचको सीविसा' इत्यादि, आस्यो-दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उर्फ च-"आसी दादा तम्गयविसाऽऽसीविसा मुणेयव्या" इति, दृष्टौ वियं येषां ते दृष्टिविषा:, उग्रं विषं येषां ते उपविषाः, भोगः-शरीरं तत्र सर्वत्र विष येषां ते भोगविषाः, त्वचि विष येषां से खग्विषाः, प्राकृतलाच 'तयाविसा' इतिपाटः, लाला-मुखात् श्रावस्तत्र विषं येषां ते लालाविषाः, निश्वासे विष पेषां ते | निश्वासविषाः कृष्णसादयो जातिभेदा लोकत: प्रत्येतव्याः! किं तं भामालिगा सादि, श्रथ का सा आसालिगा?, एवं शिष्येण प्रभे कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादक गौतमप्रभगवनिर्वचनरूपं सूत्रमस्ति वदेवागमबहुमानतः पठति-कहि भंते | इत्यादि, क णमिति वाक्यालङ्कारे भवन्त ! परमकल्याणयोगिन् ! आसालिगा संमूर्छति, एषा हि गर्भजा न भवति किन्तु संमूछिमैव सत उक्त संमूर्छति, भगवानाह-गौतम ! अन्तः-मध्ये मनुष्यक्षेत्रस्य न बहिः, एसावता मनुष्यक्षेत्रावहिरस्या उत्पादो न भवतीति ! प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽ तृतीयाः, अक्यवेन विग्रहः समुदाय: समासार्थः तेषु, एतावसा लवणसमुद्रे कालसमुद्रे या न भवतीत्यावेदितं, 'निर्व्याघातेन' व्याघातस्याभावो नियाघात सेन, यदि पञ्चसु भरतेषु पञ्चस्खैरावतेषु सुषमसुषनादिरूपोऽतिदुरुषमादिरूपश्च कालो व्यावातहेतुत्वाद् व्याघातो न भवति सदा पञ्चदशमुज कर्मभूमिषु संमूर्छति, व्याघातं प्रतीत्य, किमुक्तं भवति ?-यदि पञ्चसु भरतेषु पश्चखैरावतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायत इति प्रतिपादितं, पञ्चदशसु कर्मभूमिषु पञ्चसु महाविदेहेषु सर्वत्र न संमूर्च्छति किन्तु चक्रवर्तिस्कन्धावारेषु बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु माण्डलिक:-सामान्थराजाल्पलिका,