SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ 'अस्थि णं भंते । चंदिमसूरियाण'मित्यादि, अस्ति भदन्त ! चन्द्रसूर्याणां सामान्यतो बहुवचनं, हिडिंपि— क्षेत्रापेभ्याऽघस्ताना अपि 'तारारूपाः ' तारारूप विमानाधिष्ठातारो देवा घुतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि हीना अपीत्यर्थः केचित्तुल्या अपि तथा सममपि चन्द्र विमानैः सूर्यविमानैा क्षेत्रापेक्षया समश्रेण्यपि व्यवस्थितास्तारारूपाः देवाः ताश्चन्द्रसूर्याणां देवान्नां युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अभि तथा चन्द्रविमानानां सूर्यविमानानां चोपयपि ये व्यवस्थित तारारूपा देवासोऽपि चन्द्रसूर्याणां देवानां द्युतिविमवादिकमपेक्ष्य केचिदुणयोऽपि केचित्तुल्या अपि ?, भगवानाह - 'हन्ता अस्थि' यदेतस्वया पृष्टं तत्सर्वं तथैवास्ति । एवमुक्ते पुनः प्रमयति- 'से केणद्वेणं भंते! एवं दुञ्चति अस्थि णं चंदिमसूरियाण' मित्यादि, भगवानाह - गौतम ! 'जहा जहा णमित्यादि, यथा यथा णमिति वाक्यालङ्कारे तेषां देवानां तारारूपविमानाधिष्ठातृणां प्राम्भवे तपोनियमब्रह्मचर्याणि 'उत्सृतानि' उत्कृष्टानि भवन्ति, तत्र तपो - नमस्कारसहितादि नियमस्तु - अहिंसादि ब्रह्मचर्य - वस्तिनिरोधादि उत्सृतानीत्युपलक्षणं तेन यथा यथाऽनुत्सृतान्यपि द्रष्टव्यं, अन्यथाऽणुत्वायोगात् तथा तथा तेषां देवानां तस्मिन् तारारूपविमानाधिष्ठातृभने एवं प्रज्ञायते, तद्यथा - अणुत्वं तुल्यत्वं वेति, 'से एएणट्टेणमित्यादि, किमुक्तं भवति ?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्रासाश्चन्द्रसूर्येभ्यो देवेभ्यो घुतिविभवादिकमपेक्ष्य होना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपं देवभवमनुप्राप्ता सुतिविभवादिकमपेक्ष्य चन्द्रसूर्यदेवैः सह समाना भवन्ति न चैतदनुपपन्नं, दृश्यन्ते हि | मनुष्यलोके केचित् जन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजलमप्राप्ता अपि राज्ञा सह तुल्यविभवा इति || ' एगमेगस्त णं भंते! चंदिमसूरियस्से' त्यादि, एकैकस्य भदन्त ! चन्द्रसूर्यस्य, अनेन च पदेन यथा नक्षत्रादीनां चन्द्रः स्वामी तथा सूर्योऽपि तस्यापी
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy