________________
भदन्द ! विजयस्य देवस्य विजया नाम राजधानी प्रशप्ता ?, भगवानाह - गौतम ! विजयस्य द्वारस्य पश्चिमदिशि तिर्यगसयेयानि योजनशतसहस्राण्यवगाशात्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयदेवस्येव वक्तव्या । एवं वैजयन्त जयन्ता पराजित द्वारवक्तव्यताऽपि भावनीया, ज्योतिषवक्तव्यता सर्वाऽप्यसयेयतया वक्तव्या, नामान्यर्थेचि - न्सायामपि देवभद्रदेव महाभद्रौ वक्तव्यों, शेषं सर्वमरुणद्वीपवत् ॥ 'देवणं दीव' मित्यादि, देवं णमिति पूर्ववत् द्वीपं देवः समुद्रो वृत्तो वलयाकार संस्थान संस्थितो यावत्परिक्षिप्य तिष्ठति, अत्रापि समचक्रवालादिसूत्राणि तथैव नवरं देवोदकस्य समुद्रस्य विजयद्वारं देवोदसमुद्रपूर्वार्द्धपर्यन्ते नागद्वीपपूर्वी (पञ्चा) पश्चिमदिशि अत्रेति वक्तव्यं, राजधानी विजयद्वारस्य पश्चिमदिशि अत्रेति वक्तव्यं, राजधानी विजयद्वारस्य पश्चिमदिशि देवमुद्रं तिर्यग यानि योजनामा वक्तव्या । एवं वैजयन्तजयन्तापराजितद्वार वक्तव्यताऽपि भावनीया, नामान्वर्थचिन्तायामपि देववरदेव महावरी देवी, शेषं तथैव यथा देवो द्वीपो, नवरं नागे द्वीपे नागभद्रनागमहाभद्रौ यथा देवः समुद्रः तथा नागः समुद्रः, नवरं नागसमुद्रे नागवरनागमहावरौ, एवं यक्षादयोऽपि द्वीपसमुद्रा वक्तव्याः, नवरं यक्षे द्वीपे यक्षभद्रयक्षमहाभद्रौ देवौ, यशे समुद्रे यवरयक्षमहावरो, भूते द्वीपे भूतभद्रभूतमहाभद्रा, भूते समुद्रे भूत्तवरभूत्तमहावरी, स्वयम्भूरमणे द्वीपे स्वयम्भूरमणभद्रस्वयम्भूरमणमहाभद्रा, स्वयम्भूरमाणे समुद्रे स्वयम्भूवरस्वयम्भूमहावरौ, इह देवादिषु पञ्चसु पञ्चसु द्वीपेषु पच्चसु २ समुद्रेषु त्रिप्रत्यवतारता नास्ति, तत एकैकतयैते वक्तव्याः तथा चाह - "देवे नागे जक्खे भूए य सयम्भूरमणे अ एक्केके भाणियव्वो ।” मूलटीकाकारोऽप्याह – “देवादयोऽन्त्या एकाकारा" इति, चूर्णिकारोऽप्याह – “देवे नागे जक्खे भूए य सयंभूरमणे एतेऽन्तिमाः पञ्च एकैकाः प्रतिपत्तव्याः " नन्दीश्वरादिद्वीपानां स्वयम्भूरमणद्वीपपर्यवसानानामन्वर्थचिन्तायां वाप्यः पुष्करिण्यः च