________________
अरुणवरावभासो द्वीपोऽरुणवरावभासः समुद्रः ।। एवं कुण्डलो द्वीपः कुण्डल: समुद्रश्च त्रिप्रत्यवतारो वक्तव्यस्तयथा-अरुणवरावभा-! ससमुद्रपरिक्षेपी कुण्डलो द्वीपः तत्परिक्षेपी शासन: समुद्रः तालरिोपी हाइलवरोधीपः नारिक्षेपी कुण्डलवरः समुद्रः तत्परिक्षेपी कुण्डलवरावभासो द्वीप: तत्परिक्षेपी कुण्डलवरावभासः समुद्रः, वक्तव्यसा सर्वत्रापि क्षोदवरद्वीपक्षोदोदसमुद्रवद्रष्टव्या, नवरं देवतानामिदं नामनानात्वं-कुण्डले द्वीपे कुण्डलभद्रकुण्डलमहाभद्री द्वौ देवी, कुण्डलसमुद्रे चक्षुःशुभचक्षुःकान्ती, कुण्डलवरे द्वीपे कुण्डलवरभद्रकुण्डलवरमहाभद्री, कुण्डलबरे समुद्रे कुण्डलवरकुण्डलवरमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरावभासमहाभद्री, कुण्डलपरावभासे समुद्रे कुण्डलवरावभासवरकुण्डलवरावभासमहावरौ | कुण्डलवरावभाससमुद्रपरिक्षेपी रुचको द्वीपो रुचकद्वीपपरिक्षेपी रुचक: समुद्रः तत्परिक्षेपी रुचकवरो द्वीपस्तत्परिक्षेपी रुचकवरः समुद्रः तत्परिक्षेपी रुचकवरावभासो द्वीप: तत्परिक्षेपी रुचकवरावभासः समुद्रः, वक्तव्यता सर्वत्रापि प्राग्वत् नवरं देवनामनानालं, रुचके द्वीपे सर्वार्थमनोरमौ देवो, रुचकसमुद्रे सुमनःसौमनसौ, रुचकवरे द्वीपे रुचकवरभद्ररुचक्रवरमहाभद्रौ, रुचकवरे समुद्रे रुचकवररुचकवरमहावरौ, रुचकवरावभासे , द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्रौ, रुचकवरावभासे समुद्रे रुचकवरावभासवररुचकवरावभासमहावरौ, एतावता प्रम्थेन यदन्यत्र पठ्यते-"जंबूरीवे लवणे धायइ कालोय पुक्तरे वरणे । खीरघयखोयनंदी अरुणवरे कुंडले रुयगे ॥ १॥” इति तदावितम् । अत अई तु यानि लोके शङ्खध्वजकलशश्रीवत्सादीनि शुभानि नामानि तमामानो द्वीपसमुद्रा: प्रत्येतन्याः, सर्वेऽपि च त्रिप्रत्यवतारा:, अपान्तराले च भुजगवर: कुशवरः क्रौश्ववर इति । तथा यानि कानिचिदाभरणनामानि हाराहारप्रभृतीनि यानि वस्तुनामानि आजिनादीनि यानि गन्धनामानि कोष्ठादीनि यान्युत्पलनामानि जलसहचन्द्रोद्योतप्रमुखाणि यानि च तिलकप्रभृतीनि
1