________________
तोरणवर्णनं च प्राम्वत् । इदमन्यदधिकं पुस्तकान्तरे दृश्यते-तासि पुक्खरिणीणं चउहिसिं चत्तारि वणसंडा पण्णचा, तंजहा -पुरच्छिमेणं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं-"पुन्देण असोगवणं दाहिणतो होइ चंपगवणं तु (सत्तपण्णवणं)। अवरेण चंपगवणं
यवर्ण उत्तरे पासे ॥१॥"तेसण मित्यादि, तेषु सिद्धायतनेषु प्रत्येक प्रत्येकमष्टचत्वारिंशत् गुलिकासहस्राणि, गुलिका:-पी-4 ठिका अभिधीयन्ते, ताश्च मनोगुलिकापेक्षया प्रमाणत: क्षुल्लास्तासां सहस्राणि गुलिकासहस्राणि प्रज्ञप्तानि, नद्यथा-पूर्वस्यां दिशि | षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यानष्टौ सइम्माणि उत्तरस्यामष्टी सहस्राणि । 'तासु णं गुलियासु बहवे सु-1 वण्णरूप्पामया फलगा पन्नत्ता' इत्यादि विजयदेवराजधानीगतसुधासभायामिव वक्तव्यं यावहामवर्णनं ॥ 'तेसु ण'मियादि, है तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् मनोगुलिकासहस्राणि प्रज्ञातानि, गुलिकापेक्षया प्रमाणतो महतीतराः, तद्यथा-पूर्वस्या दिशि षोडश सहस्राणि पश्चिमाया पोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उच्चरस्यामष्टौ सहस्राणि, एतास्वपि फलफनागदन्तकमाल्यदामवर्णनं प्राग्वत् ।। 'तेसु णं सिद्धायतणेसु' इत्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशगोमानुष्य:-शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञातानि, तद्यथा-पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां पोडश सहस्राणि दक्षिणस्यामष्टी उत्तरस्थामष्ट्री सहस्राणि, तावपि फलकवर्णनं नागदन्तवर्णन सिककवर्णनं धूपघटिकावर्णनं प्राग्वत् ॥ 'तेसि णं सिद्धायतणाण'मित्यादि उलोकवर्णनमन्तबहुसमरमणीयभूमिभागवर्णनं शब्दवर्ज प्राग्वत् ॥ 'तेसि गं बहुसमरमणिज्जाणं भूमिभागाण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिकाः प्रनताः, ताश्च मणिपीठिका: षोडश योजनान्यायामविष्कम्भास्यामष्टौ योजनानि चाहल्येन सर्वासना मणिमय्यो यावत्प्रतिरूपकाः ॥ 'तासि ग'मित्यादि, तासां च मणिपीठिकानामुपरि ||
Co.