SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ द्धस्वभावावुपचितकठिनभावाविति भावः अभ्युमतौ पीनरचितसंस्थितौ च पयोधरौ यासां ताः तथा 'लूसेमाणीओ इवे'ति मुष्णन्त्य इव सुरजनानां मनांसीति गम्यते, शेषं प्रायः प्रतीतं, प्रागेवानेकशो भावितत्वात् । 'तेसि णं दाराणमुष्पि' मित्यादि तेषां द्वाराणामुपरि प्रत्येकं प्रत्येकमष्टाष्टौ मङ्गलकानि स्वस्तिकादीनि प्रज्ञप्तानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपकाणि ॥ 'तेसि णं दाराण' मि त्यादि तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपाः प्रज्ञप्ताः 'ते ग'मित्यादि, वे मुखमण्डपा एकं योजनशतमायामेन पञ्चाशद् योजनानि विष्कम्भेन सातिरेकाणि षोडश योजनानि ऊर्द्धमुचैस्त्वेन अनेकस्तम्भशतसन्निविष्ठा इत्यादि विजयदेव सुधर्मा सभाया इव वर्णनं तावद्वन्यं यावत्प्रतिरूपा । 'तेसि णमित्यादि तेषां मुखमण्डपानां प्रत्येकं प्रत्येकं 'चतुर्दिनिदिशि' चत [ति] सृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चलारि [ त्रीणि] द्वाराणि प्रज्ञप्तानि । 'ते णं दारा' इत्यादि, तानि द्वाराणि षोडश योजनानि ऊर्द्धमुचैस्त्वेन अष्टौ योजनातिविष्कमेव 'ताव ' 'सेया वरकणगधूभियागा' इति द्वारवर्णनं प्राग्वत्तावद्वक्तव्यं यावदुपयेटावष्टौ मङ्गलकानि - स्वस्तिकादीनि तेषामुल्लोचवर्णनं प्राग्वत्, तेषां च मुखमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपकाणि, बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद बहुतः सहस्रपत्रहस्तका इति । 'तेसि ण' मित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं प्रत्येकं प्रेक्षागृह मण्डपाः प्रज्ञप्ताः तेऽपि मुखमण्डपवत्प्रमाणतो वक्तव्याः, तेषामप्युल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकमपाटकाः प्रज्ञप्ताः | 'ते ण'मित्यादि, ते अक्षपादका वज्रमया: 'अच्छा जाव पडिरुवा' इति प्राग्वत् ॥ ' तेसि ण'मित्यादि, तेषामक्षपाटकानां बहुमध्यदेश भागे प्रत्येकं प्रत्येकं मणिपीठिका: प्रशप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योज -
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy