________________
*
*
*%
पवत्सर्व वक्तव्यं यावत् 'वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः क्षीरोद्परिपूर्णा वक्तव्या:, है पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वरबमया षाच्याः शेषं तथैव, पुण्ड
रीकपुष्पदन्तौ चात्र क्षीरवरे द्वीपे यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती द्वौ देवौ महद्धिको यावत्पल्योपमस्थितिको परिवसतस्ततो यस्मात्तत्र धाप्यादिपूदकं क्षीरतुल्यं क्षीरक्षीरप्रभौ च तदधिपती देवाविति स द्वीपः क्षीरवरः, तथा चाह–से एएणदेण'मित्याधुपसंहारवाक्य, चन्द्रादिसूत्रं प्राग्वत् ॥ 'खीरवरण्णमित्यादि, क्षारवरं गांति पूर्ववत् द्वोपं क्षीरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः
सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषा वक्तव्यता क्षीरवरद्वीपस्येव वक्तच्या यावज्जीवोपपातसूत्रम् ।। सम्प्रति नामनिमित्तमभिषि* सुराह–से केणटेण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते क्षीरोदः समुद्रः क्षीरोद: समुद्रः ? इति, भगवानाह-गौतम !
क्षीरोदस्य समुद्रस्योदकं यथा राक्षश्चक्रवर्तिनश्चातुरक्यं -चतुःस्थानपरिणामपर्यन्तं गोक्षीरं, चतुःस्थानपरिणामपर्यन्तता च प्रागेव व्याख्याता, 'खण्डगडमत्स्यण्डिकोपनीते' खण्डगुडमत्स्यण्डिकाभिरतिशयेन प्रापितरसं प्रयत्नेन मन्दाग्निना कथितम् , अत्यमिपरितापे वैरस्यापत्तेः, अत एवाह-वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेवं स्पर्शनोपपेतम् , आस्वादनीयं विस्वादनीयं दीपनीयं दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रप्रहादनीयमिति पूर्ववत्, एवमुक्ते गौतम आह–'भवे एयारूचे' भवेत्क्षीरसमुद्रस्खोदकमेतद्रूपम् भगवानाह-गौतम! नायमर्थः समर्थः, क्षीरोदस्य यस्मात्समुद्रस्योदकम् इतः' यथोक्तरूपाक्षीरादिष्टतरमेव यावन्मनआपतरमेवास्तादेन प्रज्ञतं, विमलविमलप्रभौ च यथाक्रम पूर्वार्धापराोधिपती द्वौ देवौ महद्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षीरमि
%
%A
।
4
%
%