________________
डोच्य पुताभ्यां मनागमो निषीवृति तथा निषण्णञ्च शिरः प्रदेशे उन्नतः पञ्चाद्भागे तु निनो निम्नतरः एवं मानुषोत्तरोऽपि जम्बूद्वीपदिशि टिः स मोन्तः पादारभ्य प्रथुखप्रदेश वृद्ध्या निनोनिम्नतर इति एतदेवातिव्यक्तमाह – 'अव - अजवरासिसंठाणसंठिए' इति अपगतमद्वै यस्य सोऽपार्द्ध: स चासौ यवश्च राशिच अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन संस्थितः, यथा यत्रो राशिव धान्यानामनन्तराले ऊर्जाधोभागेन छिनो मध्यभागे छिटक इव भवति बहिर्भागे तु शनैः शनैः प्रथुत्ववृद्धया निनो निम्नतरस्तद्वद्वेषोऽपि यवग्रहणं पृथग्व्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानदयाऽपि प्रतिपादनात् उक्तथा-"जंचूणयामओ सो रम्मो अजवसंदिओ भणिओ । सिंहनिसादीएगं दुद्दाकओ पुक्खरद्दीवो ॥ १ ॥" "सब्वजंबूणयामए' इति सर्वामना जाम्बूनदमय: 'अच्छे जाव पडिरूवे' इति प्राग्वत् । 'उभओ पासि'मित्यादि उभयोः पार्श्वयोरन्तभागे मध्यभागे चेत्यर्थ: प्रत्येकमेकैकभावेन द्वाभ्यां पद्मवर वेदिकाभ्यां वनखण्डाभ्यां च 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः द्वयोरपि पद्मचरवेदिकावनखण्डयोः प्रमाणं वर्णकच प्राग्वत् ॥ साम्प्रतं नामनिमित्तमभिधित्सुराह - 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - मानुषोत्तरः पर्वतः मानुषोत्तरः पर्व्वतः ? इति भगवानाह - गौतम ! मानुषोत्तरपर्वतस्य 'अन्तः' मध्ये म नुष्याः उपरि 'सुवर्णाः' सुवर्णकुमारा देवाः वहिः सामान्यतो देवाः, ततो मनुष्याणामुत्तरः- पर इति मानुषेोत्तरः । अथान्यद् गौतम ! मानुषोत्तरं पर्वतं मनुष्या न कदाचिदपि व्यतित्रजितवन्तः व्यतित्रजन्ति व्यतित्र जिष्यन्ति वा किं सर्वथा न ? इत्याह-तान्यत्र, चारणेन पञ्चम्यर्थे तृतीया प्राकृतत्वात् 'चारणात्' जङ्घाचारणलब्धिसंपन्नात् विद्याधराद् देवकर्मण एव क्रियया देवोत्पादनांदित्यर्थः, चारणादयो व्यतित्रजन्त्यपि मानुषोत्तरं पर्वतमिति तद्वर्जनं ततो मानुषाणामुत्तरः उच्चैस्तरोऽलङ्घनीयत्वान्मानुपोत्तरः,