SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ **** SARKAR तथा चाह-से एएणडेण'मित्याधुपसंहारवाक्यं गतार्थ ॥ सम्प्रत्येतावानेव मनुष्यलोकोऽत्रैव च वर्षवर्षधरादय इत्येतत्सूत्रं प्रतिपादयितुकाम आह'जापं च ण'मित्यादि, यात्रदयं मानुषोत्तरपर्वतस्तावत् 'अस्सिलोए' इति अयं मानुषलोक इति प्रोच्यते न परत:, । तथा यावद्वर्षाणि-भरतादीनि क्षेत्राणीति वा वर्षधरपर्वता-हिमवदादय इति वा तावदयं मनुष्यलोक इति प्रोन्यते न परतः, एतावता किमुक्तं भवति ?-वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यत्रेति, एवमुत्तरत्रापि भावनीयं, तथा यावद्गृहाणीति वा गृहापतनानीति वा वत्र गृहाणि प्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोकः प्रोच्यते, गृहाणि गृहापतनानि वाऽस्मिन्नेव मनुष्यलोके || नान्यत्रेति भावः, तथा प्रामा इति वा नकराणीति वा यावत्सन्निवेशा इति वा, यावत्करणात् खेटकर्बटादिपरिप्रहस्त्राबदयं मनुष्यलोक इति प्रोच्यते, अत्रापि भावार्थः प्राग्वत् , तथा यावदहन्तश्चक्रवर्तिनो बलदेवा वासुदेवाश्चारणा-जवाचारणविद्याधराः 'श्रमणाः' साधव: "श्रमण्यः' संयत्यः भायमा माविका या मुख्याः प्रकृतिका इत्यादि यावद्विनीतास्तावदयं मनुष्यलोक इति प्रोच्यते, अहंदादीनामत्रैव भावो नान्यत्रेति भावार्थः । तथा यावदुदारा बलाहका-मेघाः संखिद्यन्ते संमूर्च्छन्ति-वर्षी वर्षन्ति, अस्य व्याख्यानं प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वर्षाकाणामत्रैव भावो नान्यत्रेति भावार्थः, तथा यावत् 'बादरः' गुरुतरः 'स्तनितशब्द:' गर्जितशब्द इति, 'वादरो विद्युत्कार इति वा बादरा-अतिबलतरा विद्युत् तावदयं मनुष्यलोक इति प्रोच्यते, तथा यावयं बादरोऽग्निकायिकस्तावदयं मनुष्यलोक इति प्रोच्यते, बादरानिकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात् , तथा यावदाकरा इति वा, आकरा-हिरण्याकरादयः, नद्य इति वा निधय इति वा तावदयं मनुष्यलोक इति प्रोच्यते, तेषामपि मनुष्यक्षेत्रादन्यत्रासम्भवात् , तथा यावत्समया इति वा, समयः-परमनिरुद्धः कालविशेषो यस्याधो विभागः कर्तुं न शक्यते, स च सूचिकदारकस्तरुणो |
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy