________________
1
पञ्चविधा ज्योतिष्कास्वयथा चन्द्राः सूर्या महगणाः चशब्दान्नक्षत्राणि वारका भवन्ति 'चारोपगाः' चारयुक्ताः, 'तेने 'ति प्राकृ तत्वात्पश्याम्यर्थे तृतीया ततो मनुष्यक्षेत्रात्परं पा िशेषाणि चन्द्रादिमताशनसमाथि चन्द्रादित्यमहतारानभ्रत्रविमानानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् तेषां नास्ति गतिः-न स्वस्मात्स्थानाचलनं नापि 'चारः' मण्डलगत्या परिभ्रमणं किम्ववस्थितान्येव तानि ज्ञातव्यानि ॥ सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं चन्द्रादिसङ्कलनामाह - 'एगे जंबुद्दीवे दुगुणा लवणे चउरगुणा होंति । लावणगा य तिगुणिया ससिसूरा धायइडे' ॥ १ ॥ द्वौ चन्द्रौ उपलक्षणमेतत् द्वौ सूर्यौ च 'इह' अस्मिन् अम्बूद्वीपे चत्वारः 'सागरे' समुद्रे 'लवणतोये' लवणजले, धातकीपण्डे द्वीपे द्वादश चन्द्राश्व द्वादश सूर्याश्च । एतदेव भङ्ग्यन्तरेण प्रतिपादयति-राशिनौ सूर्यो जम्बूद्वीपे द्वौ द्वौ तावेव द्विगुणिती 'लवणे' लवणसमुद्रे भवतः, चत्वारो लवणसमुद्रे शशिनश्चत्वारश्च सूर्या भवन्तीत्यर्थः, द्वयोर्वाभ्यां गुणते चतुर्भावात्, पाठान्तरम् - " एवं जंबूद्दी के दुगुणा लबणे धउग्गुणा होति "त्ति, 'एवम्' उक्तेन प्रकारेण एकैको चन्द्रसूर्यौ ज म्बूद्वीपे द्विगुणौ भवतः किमुक्तं भवति ? - द्वौ चन्द्रमसौ द्वौ सूर्यौ जम्बूद्वीप इति, 'लवणे' लवणसमुद्रे तावेवैकैको सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारचन्द्राश्रखारः सूर्या लवणसमुद्रे भवन्तीति भाव:, 'लावणिकाः' लवणसमुद्रभवाः शशिसूर्यास्त्रिगुणिता घातकीषण भवन्ति, द्वादश चन्द्रा द्वादश सूर्या धातकीपण्डे द्वीपे भवन्तीत्यर्थः ॥ सम्प्रति शेषद्वीपसमुद्रगतचन्द्रादित्यसङ्ख्या परिज्ञानाय करणमाह-- धातकीषण्डः प्रभृतिः- आदिर्येषां ते धातकीपण्डप्रभृतयस्तेषु धातकीपण्डप्रभृतिषु द्वीपेषु समुद्रेषु च ये उद्दिष्टाश्चन्द्रा द्वा शादय: उपलक्षणमेतत् सूर्या वा ते 'त्रिगुणिताः' त्रिगुणीकृताः सन्तः 'आइल चंदसहिय'त्ति उद्दिष्टचन्द्रयुक्काही पात्समुद्राद्वा प्राग् जम्बूद्वीपमा कृला ये प्राक्तनाचन्द्रास्तैरादिमचन्द्रः उपलक्षणमेतत् आदिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरे