SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ 1 पञ्चविधा ज्योतिष्कास्वयथा चन्द्राः सूर्या महगणाः चशब्दान्नक्षत्राणि वारका भवन्ति 'चारोपगाः' चारयुक्ताः, 'तेने 'ति प्राकृ तत्वात्पश्याम्यर्थे तृतीया ततो मनुष्यक्षेत्रात्परं पा िशेषाणि चन्द्रादिमताशनसमाथि चन्द्रादित्यमहतारानभ्रत्रविमानानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् तेषां नास्ति गतिः-न स्वस्मात्स्थानाचलनं नापि 'चारः' मण्डलगत्या परिभ्रमणं किम्ववस्थितान्येव तानि ज्ञातव्यानि ॥ सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं चन्द्रादिसङ्कलनामाह - 'एगे जंबुद्दीवे दुगुणा लवणे चउरगुणा होंति । लावणगा य तिगुणिया ससिसूरा धायइडे' ॥ १ ॥ द्वौ चन्द्रौ उपलक्षणमेतत् द्वौ सूर्यौ च 'इह' अस्मिन् अम्बूद्वीपे चत्वारः 'सागरे' समुद्रे 'लवणतोये' लवणजले, धातकीपण्डे द्वीपे द्वादश चन्द्राश्व द्वादश सूर्याश्च । एतदेव भङ्ग्यन्तरेण प्रतिपादयति-राशिनौ सूर्यो जम्बूद्वीपे द्वौ द्वौ तावेव द्विगुणिती 'लवणे' लवणसमुद्रे भवतः, चत्वारो लवणसमुद्रे शशिनश्चत्वारश्च सूर्या भवन्तीत्यर्थः, द्वयोर्वाभ्यां गुणते चतुर्भावात्, पाठान्तरम् - " एवं जंबूद्दी के दुगुणा लबणे धउग्गुणा होति "त्ति, 'एवम्' उक्तेन प्रकारेण एकैको चन्द्रसूर्यौ ज म्बूद्वीपे द्विगुणौ भवतः किमुक्तं भवति ? - द्वौ चन्द्रमसौ द्वौ सूर्यौ जम्बूद्वीप इति, 'लवणे' लवणसमुद्रे तावेवैकैको सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारचन्द्राश्रखारः सूर्या लवणसमुद्रे भवन्तीति भाव:, 'लावणिकाः' लवणसमुद्रभवाः शशिसूर्यास्त्रिगुणिता घातकीषण भवन्ति, द्वादश चन्द्रा द्वादश सूर्या धातकीपण्डे द्वीपे भवन्तीत्यर्थः ॥ सम्प्रति शेषद्वीपसमुद्रगतचन्द्रादित्यसङ्ख्या परिज्ञानाय करणमाह-- धातकीषण्डः प्रभृतिः- आदिर्येषां ते धातकीपण्डप्रभृतयस्तेषु धातकीपण्डप्रभृतिषु द्वीपेषु समुद्रेषु च ये उद्दिष्टाश्चन्द्रा द्वा शादय: उपलक्षणमेतत् सूर्या वा ते 'त्रिगुणिताः' त्रिगुणीकृताः सन्तः 'आइल चंदसहिय'त्ति उद्दिष्टचन्द्रयुक्काही पात्समुद्राद्वा प्राग् जम्बूद्वीपमा कृला ये प्राक्तनाचन्द्रास्तैरादिमचन्द्रः उपलक्षणमेतत् आदिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरे
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy