________________
तथाहि-सर्वबाह्यमण्डले चार चरतां सूर्याणां चन्द्रमसां च प्रत्येक जम्बूद्वीपचक्रवालस्य दशधा प्रविभकस्य द्वौ दो भागो तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं पट्यधिकषत्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागो तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षड्विशतिर्भागाः सप्तविंशतितमस्य व माग: सप्तम., एवं च प्रविमलमभिवृद्धौ यदा सर्वाभ्यन्तरमण्डले चारं चरतस्तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्वापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरमण्डला
दहिनिष्क्रमेण सूर्यस्य प्रतिमण्डलं षष्ट्याधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु हैप्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पड्विंशतिर्भागाः सप्तविंशतितमस्य च भागस्य चैकः सप्तभाग इति ॥ तयां' चन्द्रसूर्याणां
तापक्षेत्रपन्थाः कलम्बुयापुष्पं-नालिकापुष्पं तद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः, एतदेव व्याचष्टे-अन्त:-मेरुदिशि सचिता बहिःलवणदिशि विस्तृताः, एतचन्द्रप्रज्ञप्ता सूर्यप्रज्ञप्तौ चतुर्थे प्राभृते सविस्तरं भात्रितमिति ततोऽवधार्यम् ॥ सम्प्रति चन्द्रमसमधिकृत्य | गौतमः प्रश्नयति-केन कारणेन शुक्लपक्षे वर्द्धते । केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति? केन वा 'अनुभावेन' प्रभा. वेण चन्द्रस्यैक: पक्षः कृष्णो भवति एक: 'ज्योत्स्ना' शुक्ल:? इति, एवमुक्ते भगवानाह-इह द्विविधो राहुस्तद्यथा-पर्वराहुनित्यराहुश्च, तत्र पर्वराहुः स उच्यते य: कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरिते च कृते | | लोके ग्रहणमिति प्रसिद्धिः, स इह न गृरते, यस्तु नित्यरादुस्तस्य विमानं कृष्णं तथाजगत्स्वाभाव्याचन्द्रेण सह नित्यं' सर्वकालमविरहित तथा 'घउरंगुलेन' चतुरङ्गलैरप्राप्तं सत् 'चन्द्रस्य चन्द्रविमानस्याधस्ताचरति, तचैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति, तथा चाह-इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावपरितनौ सदाऽनावार्यखभा