________________
|विपाकं प्रपद्यन्ते, प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनवृद्धिकरणेन च वैरोपशमनतः प्रियसंप्रयोगसंपादनतो वा यदिवा * प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिन: स्वल्पमपि प्रयोजनं शुमतिथिनक्षवादावारभंते न तु यथा कथश्चन, अत एव जिनानामपि भगवतामाज्ञा पत्राजनादिकमधिकृत्यैवमवर्तिष्ट-यथा शुभक्षेत्रे शुभदिशमभिमुखीकृय शुभे तिथिनक्षत्रमुहूर्तादौ प्रव्राजनवतारोपणादि कर्त्तव्यं नान्यथा, तथा चोक्तं पञ्चवस्तुके-"एसा लिणाण आगा खेत्ताईया य कम्मणो भणिया । उदयाहकारणं जं तम्हा सम्बन्थ जइयत्वं ॥ १॥" अस्या अक्षरगमनिका-एषा जिनानामाज्ञ यथा | शुभक्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रजाजनत्रतारोपणादि कर्त्तव्यं नान्यथा, अपिच-क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्विरुक्तास्ततोऽशुभद्रव्यक्षेत्रादिसामग्रीमवाप्य कदाचिदशुभवेद्यानि कर्माणि विपाक गलोदयमासादयेयुः, तदुदये च गृहीतवतभक्तादिदोषप्रसङ्गः, शुभक्षेत्रादिसामग्री तु प्राप्य जनानां शुभकर्मविपाकसम्भव इति संभवति निर्विनं सामायिकपरिपा-18. लनादि, तस्मादवश्य छास्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं, ये तु भगवन्तोऽतिशयमन्तस्ते अतिशयबलादेव निर्विघ्नं सविघ्नं वा सम्यगवगच्छन्ति ततो न शुभतिथिमुहूर्तादिकमपेशन्त इति तन्मार्गानुसरणं अग्रस्थानां न न्याय्यं, तेन ये च परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिषद्भुतशास्त्रगुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिरन्धिनः स्वमविकल्पितसामाचारीका अभिदधति-यथा न प्रव्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणे यतितव्यं, न खलु भगवान जगत्स्वामी प्रसाजनायोपस्थितेषु शुभतिथ्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति ॥ तेषां-सूर्याचन्द्रमसां सर्वबायान्मण्डलादभ्यन्तरं प्रविशतां तापक्षेत्रं | प्रतिदिवसं क्रमेण नियमादायामतो वर्द्धते, येनैव च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यन्वरान्मण्डलादहिनिष्कामतां परिहीयते,
KAAAAACAR