________________
तानि, यथायोगमन्यस्मिन्नन्मस्मिन्मण्डले तेषां संचरिष्णुत्वात् , नक्षत्रतारकाणां तु मण्डलान्यनवस्थितान्येव, तथा बाह-नक्षत्राणां | वारकाणां च भण्डलान्यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति -आकालं प्रतिनियतमेकैक नक्षत्राणां तारकाणां च मण्डलमिति, न
चैवं व्यवस्थितमण्डलखोक्तावेवमाशकनीयं यथा तेषां गतिरेव न भवतीति, यत आह–'तेऽवि य' इत्यादि, तान्यपि नक्षत्राणि तारकाणि च, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , प्रदक्षिणावर्तमेव, इदं क्रियाविशेषणं, मेरमनुलक्ष्यीकृत्य चरन्ति, एतब मेरु लक्ष्यीकृत्य तेषां प्रदक्षिणावर्तधरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि । 'रजनिकरदिनकराणां' चन्द्रादित्यानामूर्ख वाऽधो वा सक्रमो न भवति तथा जगत्स्वाभाव्यात् , तिर्यक पुनर्मण्डलेषु सक्रमणं भवति, किंविशिष्टमित्याह-'साभ्यन्तरवायम्' अभ्यन्तरं च वायं च अभ्यन्तरबाझं सह अभ्यन्तरबायं यस्य येन वा तत् साभ्यन्तरबाझं, एतदुक्तं भवति-सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डले दरहामणं गरम पान, शर्बत। यात्रा कराडलादर्वाग् मण्डलेषु तावत्सस्क्रमणं यावत्सर्वाभ्यन्तरमिति ॥ 'रजनिकरदिनकराणां' चन्द्रादित्याना नक्षत्राणां महापहाणां घ 'चारविशेषेण' तेन तेन चारेण सुखदुःखविधयो मनुष्याणां संभवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कर्माणि, तद्यथा-शुभवेद्यानि अशुभवेद्यानि च, कर्मणां च सामान्यतो विपाकहेतवः पञ्च, तद्यथाद्रव्यं क्षेत्र कालो भावो भवश्व, उक्त- उदयक्खयखओवसमोसमा जंच कम्मुणो भणिया । दवं खेतं काळं भावं भवं च | संपप्प ॥ १॥" शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुः, अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, सतो यदा येषां जन्मनक्षत्रायनुकूलश्चन्द्रादीनां धारस्तदा तेषां प्रायो यानि शुभवेद्यानि कम्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य
१ उदयः क्षयः क्षयोपशम उपशमो यच कर्मणो भणिताः । द्रव्यं क्षेत्र कालं भावं भय व संप्राप्य ॥१॥
CLCC-५