SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ * सुगम नवरं भवप्रत्ययादेव तेषां शरीरं वैक्रिय नौदारिकमिति वैक्रियतैजसकार्मणानि त्रीणि शरीराण्युक्तानि । अवगाहना तेषां द्विधाभवधारणीया उत्तरवैकुर्विकी च, तत्र यया भवो धार्यते सा भवधारणीया, बहुलवचनात्करणेऽनीयप्रत्ययः, अपरा भवान्तरवैरिनारकप्रतिघातनार्थमुत्तरकालं या विचित्ररूपा वैक्रयिकी अवगाहना सा उत्तरवैकुर्विकी, तत्र या सा भवधारणीया सा जघन्यतोशलासहवेयभागः, सचोपपातकाले वेदितव्यः, तथाप्रयत्नभावात् , उत्कर्षत: पञ्चधनुःशतानि, इदं चोत्कर्षतः प्रमाण सप्तमपृथिवीमधिकृत्य वेदि|तव्यं, पनि पृशिवि तूत्कर्षतः प्रमाणं साहणिटीकातो भावनीयं, तत्र सविस्तरमुक्तत्वात् , उत्तरवेकुर्विकी जघन्यतोऽङ्गलसोयभागो न वसाहयेयभागः, तथाप्रयनाभावात्, उत्कर्षतो धनु:सहसमिति, इदमप्युत्कर्षपरिमाण सप्तमगरकपृथिवीमधिकृत्य वेदितव्यं, प्रतिपथिवि तु सङ्ग्रहणिटीकातः परिभावनीयं, संहननद्वारे 'तेसिणं भंते!' इत्यादि प्रश्रसूत्रं सुगम, भगवानाह-गौतम ! पण्णां संहननानामन्यतमेनापि संहननेन तेषां शरीराण्यसंहननानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात्, कस्मादसंहननानि ? इति चेद् अत आह-नेवट्ठी' इत्यादि, नैव तेषां शरीराणामस्थीनि, नैव शिरा-धमनिनाड्यो, नापि स्नायूनि-शेषशिरा:, अस्थिनिचयालकं च संहननमतोऽ| रध्याद्यभावादसंहननानि शरीराणि, इयमत्र भावना-इह तत्त्ववृत्त्या संहननमस्थिनिचयामक, यत्तु प्रागेकेन्द्रियाणां सेवार्तसंहननमभ्यधायि तदौदारिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिकं, देवा अपि यदन्यत्र प्रज्ञापनादौ वसंहननिन उच्यन्ते तेऽपि गौणवृत्त्या, तथाहि-इह यादृशी मनुष्यलोके चक्रवादेविशिष्टबर्षभनाराचसंहननिन: सकलशेषमनुष्यजनासाधारणा शक्ति: "दोसोला बत्तीसा सव्वबलेणं तु संकलनिषद्ध"मित्यादिका, ततोऽधिकतरा देवानां पर्वतोत्पादनादिविषया शक्तिः श्रूयते न च शरीरपरिक्लेश इति तेऽपि वजसंड्ननिन इव वझसंहननिन उक्ता न पुन: परमार्थतस्ते संहननिनः, ततो नारकाणामस्थ्यभावात्संहननाभावः, एतेन योऽपरिणतमग
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy