________________
+
4
---
-
-
-
|जितं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतापराजितद्वारवद्वत्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे । 'धायइसंडस्स णं, भंते!' इत्यादि, धातकीषण्डस्य भदन्त ! द्वीपस्य द्वारल चरपरशरारं "कियत् किमाणम् 'अबाधया' अन्तरित्या व्याघातेन । प्रज्ञप्तम, भगवानाह-गौतम! दश योजनशतसहस्राणि सप्तविंशतियोजनसहस्राणि सप्त शतानि पञ्चत्रिंशानि द्वारस्य २ परस्परमवाघयाऽन्तरं प्रज्ञान, तथाहि-एकैकस्य द्वारस्य सहारशाखस्य जम्बूद्वीपद्वारस्येव पृथुख सार्द्धानि चत्वारियोजनानि, ततश्चतुणी द्वाराणामेकत्र पृथुवपरिमाणमीलने जातान्यष्टादश योजनानि, तान्यनन्तरोक्ताल्परिरयमानातू ४११०९६१ शोध्यन्ते, शोधितेषु च तेषु जातं शेषमिदम्एकचवारिंशल्लक्षा दश सहस्राणि नव शतानि त्रिचत्वारिंशदधिकानि ४११०९४३, एतेषां चतुर्मिर्भागे हते लब्धं यथोक्तं द्वाराणां परस्परमन्तरम्, उक्तञ्च-पणतीसा सत्त सया सत्तावीसा सहस्स दस लक्खा। धायइसंडे दारंतरं तु अवरं च कोसतियं ॥१॥""धायइसंडस्स णं भंते ! दीवस्स पएसा' इत्यादीनि चत्वारि सूत्राणि प्राग्वद्भावनीयानि ॥ 'से केणढणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-धातकीपण्डो द्वीपो धातकीखण्डो द्वीपः ? इति, भगवानाह-धातकीपण्डे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो धातकीवृक्षा वहतो धातकीवनपण्डा बहुनि धातकीवनानि, वनषण्डयोः प्रतिविशेषः प्रागेवोक्तः, निश्चंकुसुमिया' इत्यादि प्राग्यत् , 'धायइमहाधायइरुक्खेसु एत्थमित्यादि पूर्वार्द्ध उत्तरकुरुषु नीलवद्भिरिसमीपे धातकीनामवृक्षोऽवतिष्ठते, पश्चिमाढ़े उत्तरकुरुषु । नीलवद्भिरिसमीपे महाघातकीनामवृक्षोऽवतिष्ठते, तौ च प्रमाणादिना जम्बूवृक्षवद्वेदिवव्यो, तयोरत्र धातकीपण्डे द्वीपे यथाक्रम सुदर्शनप्रियदर्शनौ द्वौ देवी महद्धिको यावत्पस्योपमस्थितिको परिवसतः, ततो धातकीपण्डोपलक्षितो द्वीपो धातकीपण्डद्वीप, वक्षा चाह -से एएणद्वेण मित्यादि गतार्थ ॥ सम्प्रति चन्द्रादिवक्तव्यतामाह-'धायइसंडे णं भंते ! दीवे कति चंदा पभासिसु' इत्यादि