________________
वात्, सुषमसुषमादिकमधिकृत्याह - मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमादेवसंपन्ना आलीना भद्रका वि नीताः, एतेषां व्याख्यानं प्राग्वत् तेषां 'प्रणिधया' प्रणिधानं प्रणिधा, 'उपसर्गादात' इत्यङ्प्रत्ययः, तान् 'प्रणिधाय' अपेक्ष्य तेषां प्रभावत इत्यर्थः, लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्षमदुष्षमादावपि नावपीडयति, भरतवैतान्याद्यधिपतिदेवतामभावात्, तथा क्षुल्लहिमवच्छिखरिणोवैर्षधरपर्वतथोर्देवता महर्द्धिका यावत्करणान्महायुतिका इत्यादिपरिग्रहः परिवसन्ति तेषां 'प्रणिधया' प्रभावेन लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि । तथा हैमवतहैरण्यवतोर्वर्षयोर्मनुजाः प्रकृतिभद्रका यावद् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयोयों यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढ्यौ पर्वती तयोर्देवो महार्द्धको याव त्पल्योपमस्थितिको परिवसतस्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा महाहिमवत्रुक्मिवर्षधरपर्वत योदेवता महर्द्धिका इत्यादि तथैव 1 तथा विर्ष रम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्वे हैमवतवत्, तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायौ यो वृत्तवैताढ्य - पर्वतौ तयोर्देवो महर्द्धिकावित्यादि पूर्ववत् । तथा पूर्वविदेहापर विदेवर्षयोरन्तञ्चक्रवर्त्तिनो यावन्ननुजाः प्रकृतिभद्रका यावद् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा देवकुरुरुत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा उत्तरकुरुषु कुरुषु जम्ब्वां सुदर्शनायामनादृतो नाम देवो जम्बूद्वीपाधिपतिः परिवसति तस्य 'प्रणिधया' प्रभावेनेत्यादि तथैव । अथान्यद् गौतम ! कारणं, तदेवाह -लोकस्थितिरेषा - लोकानुभाव एष यलवणसमुद्रो जम्बूद्वीपं द्वीपं जलेन नावपीडयतीत्यादि । तृतीयप्रतिपत्तावेत्र मन्दरोद्देशकः समाप्तः ॥ तदेवमुक्ता लवणसमुद्रवक्ष्यता, सम्प्रति घातकीपण्डव कन्यतामाद
लवणसमुहं धायइसंडे नाम दीवे बट्टे वलयागारसंठाणसंठिते सव्वतो समता संपरिक्खिवित्ता