________________
द्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यं, द्वीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानई तु स्वस्वसमुद्र एव, राजधान्यो द्वीपगतानां चन्द्रादित्यानां स्वस्खद्वीपे, समुद्रगतानां स्वस्वसमुद्रे, आइ च मूलटीकाकारोऽपि-"एवं शेषद्वीपगतचन्द्रादियानामपि द्वीपा अनन्तरसमुद्रेष्ववगन्तव्याः, राजधान्यश्च तेषां पूर्वापरतोऽसध्येयान् द्वीपसमुद्रान् गत्वा ततोऽन्यस्मिन् सशनाम्नि द्वीपे भवन्ति, अन्यानिमान् पश्च द्वीपान मुक्त्वा देवनागयक्षभूतस्वयम्भूरमणाख्यान, न तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे, अपि तु खस्मिन्नेव पूर्वापरतो वेदिकान्तादसलयेयानि योजनसहसाण्यत्रगाह्म भवन्तीति," इह बहुधा सूत्रेषु पाठभेदाः परमेतावानेव सर्वत्राप्यर्थोऽनर्थभेदान्तरमित्येतद्वयाख्यानुसारेण सर्वेऽप्यनुगन्तब्या न नोग्धव्यमिति । 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! लत्रणसमुद्रे वेलन्धरा इति वा नागराजाः, अग्या इति वा खन्ना इति वा सीहा इति वा जाइ इति वा ?, अग्पादयो मत्स्यकच्छपविशेषाः, आह च चूर्णिकृत्-"अग्धा खन्ना सीहा विजाई इति मच्छकच्छमा” इति, इस्ववृद्धी जलस्येति गम्यते इति, भगवानाह -गौतम सन्ति । 'जहा णं भंते! लवणसमुद्दे वेलंधरा इति वा' इत्यादि पाठसिद्धम् ॥ 'लवणे ण भंते!' इत्यादि, लवणो भदन्त ! * (समुद्रः किमुच्छितोदकः प्रस्तटोदक:-प्रस्तटाकारत या स्थितमुदकं यस्य स तथा, सर्वतः समोदक इति भावः, क्षुभितं जलं यस्य स
क्षुभितजलस्तत्प्रतिषेधादक्षुभितजल: ?, भगवानाह-गौतमः उच्छ्रितोदको न प्रस्तटोदकः क्षुभितजलो नानुभितजलः ॥ 'जहा णं भिंते!' इत्यादि, यथा भदन्त ! लवणसमुद्र उच्छ्रितोदक इत्यादि तथा बाह्या अपि समुद्राः किमुच्छ्रितोदकाः प्रस्तटोदकाः क्षुभित जला, अक्षुभितजला:?, भगवानाह-गौतम! बाह्याः समुद्रा न उच्छितोदकाः किन्तु प्रस्तटोदकाः सर्वत्र समोदकलात, तथा न क्षुभितजलाः किन्वक्षुमितजला: क्षोभहेतुपातालकलशाद्यभावात् , किन्तु ते पूर्णाः, तत्र किश्चिद्धीनमपि व्यवहारतः पूर्ण भवति तत आह