________________
स्वस्य चन्द्रद्वीपस्य स्वस्याश्चन्द्राभिधानाया राजधान्या अन्येषां च बहूनां ज्योतिषाणां देवानां देवीनां चाधिपत्यं यावद्विहरतः । ततसतोत्पलादीनां चन्द्राकारत्वा मन्द्रवर्णत्वा चन्द्रदेवस्थामिकत्वाच्च तौ चन्द्रद्वीप इति चन्द्राभिधे च राजधान्यौ तयोश्चन्द्रद्वीपयोः पूस्यां दिशि तिर्यगसमेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राण्यवगाह्य विजयार राजधानीसदृश्यौ वक्तव्ये । एवं जम्बूद्वीपगतसूरसत्कसूर्यद्वीपावांचे वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रमवगाह्य वक्तव्यं, राजधान्यावपि स्वकद्वीपयोः पश्चिमायां दिशि अन्यस्मिन् जम्बूद्वीपे वक्तव्ये, शेषं सर्वे चन्द्रद्वीपवद्भावनीयं नवरं चन्द्रस्थाने सूर्य ग्रहणमिति ॥ सम्प्रति लवणसमुद्रगतचन्द्रादित्यद्वीपवक्तव्यतामाह – 'कहि णं भंते!" इत्यादि, लवणे भवौ लावणिको अभ्यन्तरौ च तौ लावणिकौ च अभ्यन्तरलावणिकौ शिखाया अर्वाक्चारिणावित्यर्थः तयोः, सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् शेषं सुगमं, भगवानाह-गौतम ! जम्बूद्वीपस्य पूर्वस्यां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे अभ्यन्तरलावणिकयोश्चन्द्रयोश्चन्द्रद्वीप नाम द्वीपो वक्तव्यों, इत्यादि जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवन्निरवशेषं वक्तव्यं, नवरमत्र राजधान्यौ स्वकी ययोपयोः पूर्वस्यां दिशि अन्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य वेदितव्ये । एवमभ्यन्तरलावणिक सूर्यसत्कसूर्य द्वीपा - वपि वक्तत्र्यौ, नवरं तौ जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्यों, राजधान्यावपि स्वकीययोः द्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशः योजनसहस्राण्यवगाह्येति । 'कहि णं भंते !" इत्यादि, क भदन्त ! बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपी प्रप्तौ ?, बाह्यलावणिको नाम लवणसमुद्रे शिखाया बहिचारिणौ चन्द्रौ, भगवानाह - | गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तादुर्भाग् लवणसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्र बाह्यलावणिकयोश्चन्द्रयोश्च -
-St