________________
'कहिणं भंते!' इत्यादि, क भदन्त ! सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम! जम्बूद्धीपस्य पश्चिमायां दिशि लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः, द्वादश योजन सहस्राण्यायामविष्कम्भाभ्यां सप्तत्रिंशद् योजनसहस्राणि नव चाष्टाचत्वारिंशानि किश्विद्विशेषोनानि परिक्षेपेण, 'जंबूदीवंतेण 'मिति जम्बूद्वीपदिशि 'अर्कैकोननवतीनि' अर्द्धमेकोननवतेर्येषां तानि अर्कैकोननवतीनि सार्द्धाष्टाशीतिसवानीति भाव:, योजनानि चत्वारिंशतं च पब्वनत्रतिभागान् योजनस्य 'जटान्तात् ' जलपर्यन्तादूर्द्धमुच्छ्रितः, एतावान् जलस्योपरि प्रकट इत्यर्थः, 'लवणसमुद्रान्ते' लवणसमुद्रदिशि द्वौ कोशौ जलान्तादुच्छ्रितौ द्वावेव क्रोशौ जलस्योपरि प्रकट इत्यर्थः ॥ ' से ण' मित्यादि, स एकया पायरवेदिकया एकेन वनपण्डेन सर्वतः समन्तात्सं परिक्षिप्तः, द्वयोरपि वर्णनं प्राग्वत् । तस्य च गौतमद्वीपस्योपरि बहुसमरमणीय भूमिभागवर्णनं प्राग्वद् यावत्तृणानां नीच शब्द वाप्यादिवनं या जानमन्तरा देवा आसते शेरते यावद्विरन्तीति । तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र सुस्थितस्य लवणाधिपस्य योग्यो महानेकः 'अतिक्कीलावासः' अत्यर्थे क्रीडावासो नाम भौमेयविहारः प्रज्ञप्तः सार्द्धानि द्वाषष्टियजनान्युर्द्धमुचैस्त्वेन एकत्रिंशतं च योजनानि क्रोशमेकं च विष्कम्भेन 'अणेगखंभसयसन्निविद्धे' इत्यादि भवनवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तस्य च बहुसमरमणीयस्थ भूमिभागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सर योजनमायासविष्कम्भाभ्यां अर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी अच्छा यावत्प्रतिरूपा ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि देवशयनीयं तस्य वर्णक उपर्यष्टाष्टमङ्गलकादिकं च प्राग्वत् ॥ नामनिमित्तं पिच्छिपुराह— 'से केणद्वेणमित्यादि, अथ 'केनार्थेन' केन कारणेन एवमुच्यते - गौतमद्वीपो नाम द्वीप: १, भगवा