________________
गेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रशप्ता, सा च विजयराजधानी सहशी वक्तव्या ॥ तदेवमुक्तो गोस्तूपोऽधुना दकाभा| सवतव्यतामाह — 'कहिं णं भंते! सिवगस्ले' त्यादि प्रससूत्रं पाठसिद्धं भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य द क्षिणतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगाक्षात्रान्तरे शिवकस्य भुजगेन्द्रस्य भुजगराजस्य दकाभासो नामावासपर्वतः प्र क्षप्तः, स च गोस्तूपवदविशेषेण वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ अधुना नामनिमित्तं पिच्छिपुराह—' से केणद्वेण' मित्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! दकामास आवासपर्वतो लवणसमुद्रे सर्वासु दिक्षु स्वतीमातोऽष्टयोजनिके-अष्टयोजनप्रमाणे क्षेत्रे यदुदकं तत् 'समन्ततः' सामस्त्येनातिविशुद्धानामरत्नमयत्वेन स्वप्रभयाऽवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे - उद्द्योतयति चन्द्र इव तापयति सूर्य इव प्रभासयति ग्रहादिवि ततो दुकं पानीयमाभासयति - समन्ततः सर्वासु विक्षु अवभासयतीति दकाभासः, अन्यश्च शिवको नामात्र पर्वतेषु भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति । 'से णं तत्थ चउ सामाणियसाहस्सीण' मित्यादि प्राग्वत् नवरमत्र शिवका राजधानी वक्तव्या, तस्मिंश्च परिवसति स आवासपर्वतो दकमध्येऽतीवाssभासते - शोभते इति दकाभास:, 'से एएणद्वेण 'मित्याद्युपसंहारवाक्यं गतार्थ, शिवकाराजधानी काभासस्य वासपर्वतस्य दक्षिणतोऽन्यस्मिन् लवणसमुद्रे विजयाराजघानीव भावनीया || अधुना शङ्खनामकावास पर्वतवक्तव्यतामाह - 'कहि मं भंते!" इत्यादि, क भदन्त ! शङ्खस्य भुजगेन्द्रस्य भुजगराजस्य शङ्खो नामावासपर्वतः प्रज्ञप्तः ?, भगवानाद गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पश्चिमायां दिशि लवणसमुद्रं द्वाचत्वारिंशर्त योजनसहस्राण्यवगाह्यात्रान्तरे शङ्खस्य भुजगेन्द्रस्य भुजगराजस्य शङ्खो नामावासपर्वत: प्रज्ञप्तः, स च गोस्तूपवदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ इदानीं नामनिबन्धनमभिधित्सुराह - 'से केणद्वेण 'मि