________________
मणीयस्य भूमिभागस्य बहुमध्यदेश भागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, स च विजयदेवस्य प्रासादादतंसकसदृशो वक्तव्यः, स चैवं सार्द्धानि द्वाषप्रियजनानि उच्चैस्त्वेन, सक्रोशान्येकत्रिंशद् योजनान्यायाम विष्कम्भाभ्यां प्रासादवर्णनमुखोचवर्णनं च प्राग्वत् । तस्य च प्रासादावतंसकस्यान्तयेहु मध्यदेश भागे महत्येका सर्वरत्नमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यूतद्वयबाहुल्या, तस्याश्च मणिपीठिकाया उपरि महदेव सिंहासनं तचेन्द्रसामानिकादिदेव योग्यैर्भद्रासनैः परिवृतमिति । 'से केणद्वेणं भंते!" इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यने गोस्तूप आवासपर्वतो गोस्तूप आवासपर्वतः ? इति भगवानाह - गौतम! गोस्तूपे आवासपर्वते सुखासु क्षुल्लिकासु वापीषु यावद्विलपङ्किषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि गोस्तूपप्रभाणि गोस्तूपाकाराणि गोस्तूपवर्णानि गोस्तूपवर्णस्येवामा - प्रतिभासो येषां तानि गोस्तूपवर्णाभानि ततस्तानि तदाकारत्वात् तद्वर्णत्वात्तद्वर्णसाहश्याच गोस्तूपानीति प्रसिद्धानि तयोगादावासपर्वतोऽपि गोस्तूपः, अनादिकालप्रवृत्तोऽयं व्यवहार इति तेन नेतरेतराश्रयदोष:, एवमुत्तरत्रापि भावनीय, तथा गोस्तूपश्चात्र भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्करणात् महाद्युतिक इत्यादि परिग्रहः, स च चतुर्णा सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां तिसृणां पर्पदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षदेवसहस्राणां गोस्तूपस्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषां च बहूनां गोस्तूपराजधानी वास्तव्यानां देवानां देवीनां चाधिपत्यं यावद्विहरति, सतो गोस्तूपदेवखामिकत्वाच गोस्तूप:, 'से एएणद्वेण' मित्याद्युपसंहारवाक्यं प्रतीतम् ॥ सम्प्रति गोस्तूपां राजधानीं पृच्छति – 'कहि णं भंते!” इत्यादि, क भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञमा ?, भगवानाह - गौतम! गोस्तूपस्यावासपर्व - सस्य पूर्वया दिशा तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे गोस्तूपस्य भुज