________________
द्विष्कम्भस्य द्विगुणनात् पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशं च किश्विद्विशेषोनं परिक्षेपेण, परिक्षेपप्रमाणं चैतत् परिधिगणित भावनया स्वयं भावनीयं क्षेत्रसमासटी कातो वा परिभावनीयम् ॥ ' से ण' मित्यादि, 'सः' लवणनामा समुद्र एकया पद्मत्ररवेदिकया, अष्टयोजनोच्छ्रितजगत्युपरिभाविन्येति गम्यते, एकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, सा च पद्मवरवेदिकाऽर्द्धयोजनमूर्द्धमुचैस्त्वेन पश्वधनुः शतानि विष्कम्भतः परिक्षेपतो लवणसमुद्रपरिश्क्षेपप्रमाणा, बनखण्डो देशोने द्वे योजने, अभ्यन्तरोऽपि पद्मवरवेदिकाया वनषण्ड एवंप्रमाण एव, उभयोरपि वर्णनं जम्बूद्वीपपद्मवर वेदिकावन षण्डवत् ॥ सम्प्रति द्वावक्तव्यतामभिधित्सुरिदमाह -- ' लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि ?, भग| वानाह - गौतम! चलारि द्वाराणि प्रज्ञप्तानि तद्यथा - विजयवैजयन्तजयन्तापराजिताख्यानि ॥ 'कहि पण' मित्यादि, क भदन्त ! लवसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं ?, भगवानाह - गौतम !, लवणसमुद्रस्य पूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य 'पथत्थिमेणन्ति पश्चिमभागे शीतोदाया महानद्या उपर्यत्रान्तरे लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं, अष्टौ योजनान्युर्द्धमुच्चैस्त्वेन । एवं जम्बूद्वीपगतविजयद्वारस|दृशमेतदपि वक्तव्यं यावद्वहून्यष्टावष्टौ मङ्गलकानि यावद्वहवः सहस्रपत्र हस्तका इति ॥ सम्प्रति विजयद्वारनामनिबन्धनं प्रतिपिपादविपुरिमाह--' से केणद्वेणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - विजयद्वारं विजयद्वारम् ? इति भगवानाह - गौतम! विजये द्वारे विजयो नाम देवो महर्द्धिको यावद् विजयाया राजधान्या अन्येषां च बहूनां विजयाराजधानी वास्तव्यानां वानमन्त राणां देवानां देवीनां चाधिपत्यं यावत्परिवसति, ततो विजयदेवस्वामित्वाद विजयमिति, तथा चाह---' से एएणद्वेण' मित्यादि सुगमं । 'कहि णं भंते!" इत्यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञता ?, भगवानाह - गौतम ! विजयद्वारस्य