________________
णमित्यादि । कावनिकाश्च राजधान्यो यमिकाराजधानीद् वक्तव्याः । 'कहि णं भंते!" इत्यादि के भदन्त ! जम्बूद्वीपे द्वीपे उतरकुरुषु कुरुषु उत्तरकुरुछदो नाम हदः प्रज्ञप्तः ?, भगवानाह - गौतम ! नीलवतो हृदस्य दाक्षिणात्याश्वरमपर्यन्तादष्टौ 'चतुस्त्रिंशानि' चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च योजनस्य सप्तान अबाया कुलेति गम्यते शीवाय महानद्या बहुमध्यदेश भागे अत्रोत्तरकुरुनामा हृदः प्रज्ञप्तः, यथैव प्राग् नीलवतो हदस्यायामविष्कम्भोद्वेधपद्म वर वेदिका वनषण्डत्रि सोपानप्रतिरूपकतोरणमूलभूतमहापाष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेप त्रयवक्तव्यवोक्ता तथैवेहाप्यन्यूनातिरिक्ता वक्तव्या ॥ नामकरणं पिपृच्छिपुरिदमाह-'से केणर्ण भंते!' इत्यादि प्राग्वश्वरमुत्पलादीनि यस्माद् 'उत्तरकुरुइदप्रभाणि' उत्तरकुरुहदाकाराणि तेन तानि तदाकारयोगात् उत्तरकुरुनामा च तत्र देवः परिवसति तेन तद्योगाद् दोऽप्युत्तरकुरुः, न चैवमितरेतराश्रयदोषप्रसङ्गः, उभयेषामपि नाम्नामनादिकालं तथा प्रवृत्तेः एवमन्यत्रापि निर्दोषता भावनीया, उत्तरकुरुनामा च तत्र देवः परिवसति, तद्वक्तव्यता च नीलवन्नागकुमारवद्वक्तव्या, ततोऽप्यसाबुत्तरकुरुरिति, राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता न राजधानीपर्यवसाना प्राग्वत् ॥ चन्द्र हवकव्यतामाह-- 'कहि णं भंते!" इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! उत्तरकुरुहृदस्य दाक्षिणात्यावर मान्तादर्वाग् दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यावाधया कृत्वेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र' अस्मिन्नवकाशे उत्तरकुरुषु कुरुषु चन्द्र दो नाम हृदः प्रज्ञप्तः अस्यापि नीलबद हदस्येवायामविष्कम्भोद्वेधपद्मवर वेदिकावनपण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिचारपद्मशेषपद्मपरिक्षेपत्र यवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि 'चन्द्रद्रदप्रभाणि चन्द्रहदाकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसति तस्माचन्द्र दाभोत्पलादियो