________________
त्राण्युत्तरस्यामिति । तदेवं मूलपद्मस्य त्रयः पद्मपरिवेषा अभूवन् अन्येऽपि च त्रयो विद्यन्त इति तत्प्रतिपादनार्थमाह-' से प पज मे' इत्यादि, तत् पद्ममन्यैरनन्तरोक्त परिक्षेपत्रि कव्यतिरिकैखिभिः पद्मपरिवेषै: 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येन च तत्राभ्यन्तरे पद्मपरिक्षेपें सर्वसङ्ख्यया द्वात्रिंशत्पद्मशतसहस्राणि प्रज्ञप्तानि ३२००००० मध्ये पद्मपरिक्षेपे चत्वारिंशत् शतसहस्राणि ४००००००, त्राझे पद्मपरिक्षेपेऽष्टाचखारिंशत्पद्मशतसहस्राणि ४८००००० प्राप्तानि । 'एवमेव' अनेनैव प्रकारेण 'सपुत्र्या वरेणं'ति सह पूर्व यस्य येन वा सपूर्व सपूर्वे च तद् अपरं च सपूर्वापरं तेन पूर्वापर समुदायेनेत्यर्थः, एका पद्मकोटी विंशतिश्च पवाशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्च वीर्यकृद्भिः एतेन सर्वतीकृताविनिनामा कोल्यारिका च सङ्ख्या स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसङ्ख्याया अ वश्यं भावात् ॥ सम्प्रति नामान्वर्थे पिपृच्छिपुराह--' से केणणं भंते!" इत्यादि अथ केनार्थेनैवमुध्यते नीलबदुइदो नीलवद्हृदः ? इति भगवानाह - गौतम ! नीलबद्इदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि 'हरपलानि' पद्मानि पावसहस्रपत्राणि नीलबदुइदप्रमाणि - नीलवन्नाम हृदाकाराणि 'नीलवद्वर्णानि' नीलवन्नामवर्षधर पर्वतस्तद्वर्णानि नीलानीति भाष:, नीलवनाभा च नागकुमारेन्द्रो नागकुमारराजो महर्द्धिक इत्यादि यमक देववन्निरवशेषं वक्तव्यं यावद्विहरति वतो यस्मात्तानि पद्मानि नीलवर्णानि नीलवन्नाभा च तधिपतिर्देवस्ततस्त्रयोगादसौ नीलवन्नामा इद:, तथा चाइ— 'से एएणडेज' मित्यादि । 'कहि णं भंते ! नीलयं तदहस्से'त्यादि राजधानीविषयं सूत्रं समस्तमपि प्राग्वत् ॥
नीलवंतस्स णं पुरात्थिमपचत्थिमेणं दस जोयणाई अबाधाए एत्थ णं दस दस कंचणगप