SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ सत्यप्रमाणमेव तेषां भावयति — 'ते णं पउमा' इत्यादि, तानि पद्मानि प्रत्येकमर्द्धयोजनमा यामविष्कम्भाभ्यां क्रोशमेकं बाहल्येन दश योजनशतानि उद्वेधेन क्रोशमेकं जलपर्यन्तादुच्छ्रितं सातिरेकाणि दश योजनशतानि सर्वात्रेण ॥ ' तेसि ण' मित्यादि तेषां पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, वज्रमयानि मूलानि रिष्ठरत्नमयाः कन्दाः बैडूर्यरत्नमया नालाः तपनीयमयानि बाह्मपत्राणि जाम्बूनदमयानि अभ्यन्तर पत्राणि तपनीयमयानि केशराणि कनकमय्यः कर्णिकाः नानामणिमयाः पुष्करस्थिभुगाः ॥ 'ताओ णं कण्णियाओ' इत्यादि, ताः कर्णिकाः क्रोशमायामविष्कम्भाभ्यामर्द्धक्रोशं बाहुल्येन सर्वासना कनकमय्य: 'अच्छाओ जान पडिरूवाओं' इति प्राग्वत् ॥ 'तासि णं कण्णियाण'मित्यादि, तासां कर्णिकानामुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य वर्णकः पूर्ववत्तावक्तव्यो यावन्मणीनां स्पर्शः ॥ 'तस्स ण'मित्यादि, तस्य मूलभूत पद्मस्य 'अपरोत्तरेण' अपरोत्तरस्यां एवमुत्तरस्यामुत्तरपूर्वस्यां सर्वसङ्कलनया तिसृषु दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागकुमारराजस्य चतुर्णी सामानिकसहस्राणां योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञप्तानि । 'एतेण' मित्यादि एतेनानन्तरोदितेनाभिलापेन यथा विजयस्य सिंहासनपरिवारोऽभिहितस्तथेहापि पद्मपरिवारो वक्तव्यः, तद्यथा - पूर्वस्यां दिशि चतसृणामश्रमहिषीणां योग्यानि चत्वारि महापद्मानि दक्षिणपूर्वस्यामभ्यन्तरपर्षदो ऽष्टानां देवसहस्राणां योग्यान्यष्टौ पद्मसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश पद्मसहस्राणि दक्षिणापरस्यां बासपर्षदो द्वादशानां देवसहस्राणां द्वादश पद्मसहस्राणि, पश्चिमायां सप्तानामनीकाधिपतीनां योग्यानि सप्त महापद्मानि प्रज्ञप्तानि तदनन्तरं तस्य द्वितीयस्य पद्मपरिवेषस्य पृष्ठतश्चतसृषु दिक्षु षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश पद्मसहस्राणि प्रज्ञप्तानि, तद्यथा चलारि पद्मसहस्राणि पूर्वस्यां दिशि चत्वारि पद्मसहस्राणि दक्षिणस्यां चत्वारि पद्मसहस्राणि पश्चिमायां चत्वारि पद्मसह
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy