________________
लाटानां यद् अङ्गपल्लाणं रूढं तदन्यविषये थिल्लिरित्युच्यते, शिबिका इति वा, शिबिका - कूटाकाराच्छादितो जम्पानविशेष:, सन्दमानिया इति वा, सन्दमानिया - पुरुषप्रमाणो जम्पानविशेष: १, भगवानाह - नायमर्थः समर्थः पादविहारचारिणस्ते मनुजाः प्रसता हे श्रमण ! हे आयुष्मन् ! | 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा महिषा इति वा खरा इति वा घोटका इति वा?, इह जात्या आशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा?, भगवानाछहन्त ! सन्ति, न पुनस्तेषां मनुजानां परिभोग्यतया 'हवं' शीघ्रमागच्छन्ति ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गाव:- श्रीगव्यः, महिष्य इति वा उट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणा - मुपभोग्यतया हव्यं शीघ्रमागच्छन्ति ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु सिंहा इति वा, सिंह:-पञ्चाननः, व्याघ्रा इति वा व्याघ्रः शार्दूलः, वृका इति वा, द्वीपिका इति वा द्वीपिका :- चित्रकाः ऋक्षा इति वा परस्सरा इति वा, परस्सरो - गण्डः, श्रृगाला इति वा, बिडाला इति वा, शुनका इति वा, कालशुनका इति वा, कोकन्तिका इति वा, कोकन्तिकालुइडिकाः, शशका इति वा, चिल्लला इति वा, चिह्नल - आरण्यकः पशुविशेष: १, भगवानाह - दन्त ! सन्ति, न पुनस्ते परस्परस्था तेषां वा मनुजानां काचिदाबाधां वा प्रबाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त | उत्तरकुरुषु कुरुषु शालय इति वा श्रीय इति वा गोधूमा इति वा यवा इति वा तिला इति वा इष इति वा ?, हन्त ! सन्ति न पुनस्तेषां मनुष्याणां परिभोग्यतया 'हवं' शीघ्रमागच्छन्ति || ' अस्थि णं भंते' इत्यादि, अस्ति भवन्त ! उत्तरकुरुषु कुरुषु स्थाणुरिति वा कण्टक इति वा दीरमिति वा, हीरं लघु कुत्सितं तृणं, शर्करेति वा, शर्करा-कर्क