________________
इत्यादि, अस्ति भदन्त! उत्तरकुरुषु कुरुषु हिरण्यमिति वा-हिरण्यं-अघटितं सुवर्ण कांस्यं-कास्थभाजनजाति: 'दसमिति का दूध्यं वनजातिः, मणिमौक्तिकशलशिलाप्रवालसत्सारखापतेयानि वा, तत्र मणिमौक्तिकशङ्कशिलाप्रवालानि प्रतीतानि सदु-विद्यमानं सारं
प्रधानं वापतेयं-धनं सत्सारखापतेयं, भगवानाह-हन्ता! अस्ति, 'नो चेव 'मित्यादि, न पुनस्तेषां मनुजानां तद्विषयस्तीयो, ममत्वभावः समुत्पद्यते, मारामादितथा सिखासा अस्थिभंते !' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुषु राजेति वा राजा-चक्रवर्ती बलवेवासुदेवो महामाण्डलिको वा युवराज इति वा-उत्थिताशनः ईश्वरो-भोगिकादि, अणिमाद्यष्टविधैश्वर्ययुक्त । ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरत्नालङ्कतसौवर्णपट्टविभूपितशिराः, कौटुम्बिक इति वा, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, माडम्बिक इति वा, यस्य प्रत्यासनं प्रामनगरादिकमपरं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्यं तस्थाधिपतिर्माडम्बिकः, इभ्य इति वा, इभो-हस्ती तत्प्रमाणे द्रव्यमहतीतीभ्यः, यत्सत्कपुजीकृत्तहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेष: श्रेष्ठी,
सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलनणायाः सेनायाः प्रमः सेनापतिः, सार्थवाह इति बा, "गणिमं धरिमं मेजं पारिच्छ।। पाचे वजायं तु । घेत्तूर्ण लाभत्थं वच्चइ जो अन्नदेसं तु ॥ १॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहदिनाम धणो व्ब लोए समुन्वहद ॥ २॥" एतल्लक्षणयुक्तः सार्थवाहः, भगवानाह-गौतम! नायमर्थः समर्थों, व्यपगर्द्धिसत्कारा
१ गणिमं धरिम मेयं परिच्छेयं चैव द्रव्यजातं तु । गृहीत्वा लाभार्थ जति योऽन्यदेशं तु ॥१॥ नृपबहुमतः प्रसिद्धो दीनानाथानां वत्सलः पथि । स सार्थवाहनाम धन इव लोके समुदहति ॥ २॥