________________
निरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, 'छायाउज्जो वियंगमंगा' छायया - शरीरप्रभया उद्योतितमङ्गमङ्गम् - अङ्गप्रत्यङ्गं येषां ते तथा, 'अनुलोमवाड वेगा' अनुलोम :- अनुकूलो वायुवेगः - शरीरान्तर्वर्तिवातजवो येर्षा ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदर मध्यप्रदेशा इति भावः, आह च मूलटीकाकार:- “उदर मध्यप्रदेशे वायुगुल्मो वेषां तेषामनुलोमो | वायुवेगो न भवति, तदभावाञ्च तेषामनुलोमो भवति वायुवेगो मिथुनाना" मिति, 'कङ्कमणी' इति कङ्कः-पक्षिविशेषस्तस्येव प्रणि:गुदाशयो नीरोगवर्थस्कतया येषां ते कङ्कप्रणयः, 'कवोयपरिणामा' कपोतस्येव - पक्षिविशेषस्य परिणाम आहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जाठराभिः पापाणलवानपि जरयतीति श्रुतिः, एवं तेषामप्यत्यर्गलाहारग्रहणेऽपि न जातुचिदन्यजीर्णदोषा भवन्तीति, 'सपोस पितरोरुपरिणया' इति शकुनेरिव - प्रक्षिण इव पुरीषोत्सर्गे निर्लेपतया 'पोसं 'ति पोस:- अपानदेश: 'पुस - उत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा लघुपरिणामतया पृष्ठं च प्रतीतं अन्तरे व- पृष्टोदरयोरन्तराले पार्श्ववित्यर्थः ऊरू चेति द्वन्द्वः ते परिणता येषां ते शकुनिपोखपृष्ठान्तरोरुपरिणताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात, 'विग्गद्दियन्नयकुच्छी' विप्रहिता - मुष्टिप्राया उन्नता च कुक्षिर्येषां ते विग्रहितोन्नतकुक्षयः, वज्रर्षभनाराचं संहननं येषां ते वज्रर्षभनाराच संहननाः, तथा सम चतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, पड्धनुःसहस्रोच्छ्रिता:-त्रिगन्यूतप्रमाणोकछ्रयाः, तथा तेषामुत्तरकुरुबास्तव्यानां मनुष्याणां द्वे पृष्ठकरण्डकशते पद्मध्वाशे - पपश्चाशदधिके प्राप्ते तीर्थंकर गणधरैः ॥ 'ते णं मणुया' इत्यादि, ते उत्तरकुरुवातन्या मनुजाः प्रकृत्या – स्वभावेन भद्रकाः - अपरानुपतापहेतुकायवाङ्यनश्चेष्टाः, तथा प्रकृत्या - स्वभावेन न तु परोपदेशतः परेभ्यो भयतो बोपशान्ताः तथा प्रकृत्या स्वभावेन प्रतनवः - अतिमन्दीभूताः क्रोधमानमाचालोमा येषां ते प्रकृ