________________
लसित्थे' इति सबाप्पानि - बाष्पं मुभ्वन्ति मृदूनि - कोमलानि चतुष्कल्पसेकादिना परिकर्मितस्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि-परिपूर्णानि सित्थूनि यत्र स सवाष्पमृदुविशदसकल सित्थुः, अनेकानि यानि शालनकानि - पुष्पफलप्रभृतीनि तैः संयुक्तः - समुपेतोऽनेकशालनक संयुक्तः, तथा चानोदक इति सम्बन्धः, किंविशिष्ट: ? इत्याह- परिपूर्णानि - समस्तानि द्रव्याणि - एलाप्रभृतीनि उपस्कृतानि - नियुक्तानि यत्र स परिपूद्रव्यप, निष्ठाम्पस परनिपातः सुखादिदर्शनात्, सुसंस्कृतो - यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इति वर्णगन्धरसस्परौः सामर्थ्यादतिशायिभिर्युक्ताः सहितः बलवीर्यहेतवः परिणामा यस्य स तथा अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैोपपेता इति भावः तत्र बलं शारीरं वीर्य - आन्तरोत्साहः, 'इंदियबलपुडिवडणे' इति, इन्द्रियाणां चक्षुरादीनां बलं - खखविषयप्रहणपाटवमिन्द्रियबलं तस्य पुष्टि:- अतिशायी पोष इन्द्रियबलपुष्टिस्तां वर्द्धयति, नन्द्यादित्वादन:, इन्द्रियबलपुष्टिवर्द्धन तथा क्षुत्र पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामधन:, तथा प्रधानः कथितो यो गुडो यद्वा कथितं - प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी - खण्डशर्करा यथ प्रधानं घृतं तानि उपनीतानि - योजितानि यस्मिन् स प्रधानकथितगुडखण्ड मत्स्यण्डीघृतोपनीतः, निष्ठान्तस्य परनिपातोऽत्रापि सुखादिदर्शनात्, स व मोदक लक्षणसमितिगर्भः - अविऋक्ष्णकणिका मूलदल: प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेकबहुविविश्वविस्सापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलबन्तो यावत्प्रतिरूपाः ७ ॥ 'उत्तरकुराए णं कुराए इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे वस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मण्यङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा ते हारोऽर्द्धहारो वेष्टनं मुकुटः कुण्डलं वामोचको हेमजालं मणिजालं कनकजालं सूत्रकमुचीकटके खुडकाम (डका ए) कावलिः कण्ठसूत्रं मकरिका उरस्क