________________
बहवो ज्योतिषिका नाम छमंगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन्! यथा तद् अचिरोद्गतं शरदि सूर्यमण्डलं यदिवा यथैतद् उल्का-15 सहस्रं यथा वा दीप्यमाना विद्युत् अधवा यथा निर्धूमज्वलित उज्वल:-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्यत्ययः प्राकृतवान, ततः सर्वेषामेषां द्वन्द्वः समासः, कथम्भूता एते। इत्याह-निद्धंतधोये'त्यावि, निर्मातेन-नितरामाग्निसंयोगेन यद् धौत-शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमांनां विमुकुलितानां-विकसितानां पुजाः ये च मणिरत्रकिरणाः यश्च जासहिङ्गलकनिकरतद्रूपेभ्योऽप्यतिरेकेण-अतिशयेन यथायोग वर्णतः प्रभया च रूप-स्वरूपं येषां ते निमोतधौतप्ततपनीयकिंशु* काशोकजपाकमुमविमुकुलितपुअमणिरत्नकिरणजात्यहिङ्गुलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिपिका अपि द्वमगणा अनेकबहुविविधविश्रसापरिणतेनोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमुला मूलवन्त इत्यादि प्राग्वद् याव-8 प्रतिरूपा: ५ ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तख तस्य देशस्य तत्र तत्र प्रदेशे बहवचित्राङ्गका नाम द्रुमगणाः प्रशप्पा हे श्रमण! हे आयुष्मन् ! यथा तत् प्रेक्षागृह विचित्रं-नानाविधचित्रोपेतम् , अत एव रम्यं-रमयति मनांसि द्रष्णामिति रम्यं, बाहुलकात् करि यप्रत्ययः, वराश्च ताः कुसुमदाममालाश्व-प्रथितकुसुममाला वरकुसुमदाममालास्ताभिरज्वलं देदीप्यमानखाट् वरकुसुमदाममालोज्वलं, तथा भास्वान-विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुजोपचारस्तेन कलितं भावन्मुक्तपुष्पपु जोपचारकलितं, ततः पूर्वपदेन विशेषणसमासः, तथा विरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि || प्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगल्भं अतीव परिपुष्टं सिल्लितविचित्रमाल्यश्रीसमुदयप्रगल्भं, तथा ग्रन्थिम-यत् सूत्रेण प्र[थितं चेष्टिम-यत्पुष्पमुकुट इव उपर्युपरि शिखराकृत्या मालास्थापनं पूरिम-यलघुच्छिद्रेषु पुष्पनिवेशेन पूर्य से सहातिम यत्पुष्पं पुष्पेण