SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ संभृताः 'विष्यन्दन्ति' स्रवन्ति, सामर्थ्यात्तानेवानन्सरोदितान् मद्यविधीन् , कचित् 'विसति' इति पाठस्तत्र विकसन्तीति व्याख्येय, किमुक्तं भवति ? तेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा तान् मद्यविधीन मुञ्चन्तीति, कुशविकुशविशुद्धवृक्षमूला:, 'मूलवन्त' इत्यादि प्राग्वद् यावत्प्रतिरूपका इति १ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य । देशस्य तत्र तत्र प्रदेशे बहवो भृङ्गाङ्गका नाम दुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! 'जहा से इत्यादि, यथा ते करकपटककलशकर्करीपादकाचनिकाउदकवा नीसुप्रतिष्ठकविष्ठरपारीचषकभृङ्गारककरोटिकासरकपरकपात्रीस्थालमल्लकचपलितदकवारकविचित्रपट्टकशुक्तिचारुपीनका भाजनविषयः, एते प्रायः प्रतीताः, नवरं पादकाचनिका-पादधावनयोग्या काञ्चनमयी पात्री उदको येनोदकमुच्यते वार्डानी-पालन्तिका सरको-वंशमयच्छिकाः शिक्काकृतिः अप्रतीता लोकतो विशिष्टसंप्रदायाद्वाऽवसातव्याः, कयम्भूताः? इत्याह -काश्चनमणिरत्नभक्तिचित्राः, पुनः कथम्भूताः? इत्याह-बहुप्रकाराः, एकैकस्मिन् विधाववान्तरानेकभेदभावान्, तथैव ते भृङ्गाङ्गका अपि दुमगणाः 'अणेगबहुविविविस्ससापरिणयाए' इत्यस्य व्याख्या पूर्ववत् माजनविधिनोपपेताः, कुशविकुशविशुद्धबृक्षमूला मूलबन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः २॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तुटिताङ्गका नाम दुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, 'जहा से इत्यादि, यथा ते आलिजय(मुख)मूदङ्गपणवपदहदर्दरककरटिडिण्डिमभम्भाहोरम्भाक्रणिताखरमुखीमकुन्दशतिकापिरलीवचकपरिवादिनीवंशवेणुवीणासुघोषाविपश्चीमहतीकच्छभोरिगसिका, तत्रालिय बाद्यत इति आलिङ्गवः मुरवः-वाद्यविशेष:, एप यकारान्तशब्दः, मृदङ्गो-लघुमर्दलः, पणवो-भाण्डपटहो लघुपटहो वा पटहः-प्रतीतः, दर्दरकोऽपि तथैव, करटी-सुप्रसिद्धा, डिण्डिमः-प्रथमप्रस्तावनासूचक: पणवविशेषः, भम्भा -%
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy