________________
तप्रत्ययस्वतः पदद्वयंपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससारबद्रव्ययुक्तिसम्भारकालसन्धिनासवाः, मधुमेरको-मद्यविशेषौ, 'रिष्ठरत्नवर्णाभा' रिष्ठा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजाति:-आस्वादतः क्षीरसदशी, प्रसनासुराविशेषः, नेल्लकोऽपि सुराविशेषः, शतायुर्नाम या शतवारान् शोधिताऽपि स्वस्वरूपं न जहाति, 'खजुरमुदियासार' इति अ-3 चापि सारशब्दः प्रत्येकमभिसंबध्यते, खजूरसारो मृवीकासारः, तत्र ण(मूलदलखर्जूरसारनिष्पन्न आसवविशेष: सर्जूरसारः, मृद्वीकाद्राक्षा तत्सारनिष्पन्न आसवविशेषो मृद्वीकासारः, कापिशायितं-मद्यविशेषः, सुपक्कः-सुपरिपाकागतो यः शोदरस-इक्षुरसस्त निष्पन्ना वरसुरा सुपक्कझोदरसवरसुरा, कथम्भूता एते मद्यविशेषाः? इत्याह-'वन्नगंधरसफासजुत्तवलविरियपरिणामा' वर्णन सामयादतिसलिला एक गोष, रोग लोग घ चुनः ...हिता बलवीर्यपरिणामा-बलहेतवो वीर्यररिणामा येषां ते तथा, किमुक्तं भवति ?
परमातिशयसंपन्नवर्णगन्धरसस्पशैर्बलहेतुभिर्वीर्यपरिणामैश्चोपेता इति, पुन: किंविशिष्टा: ? इत्याह-'यहप्रकाराः' बहवः प्रकारा येषां * ४ जातिभेदेन ते बहुप्रकाराः, तथैव मत्ताङ्गका अपि द्रुमगणा मद्यविधिनोपपेता इति योगः, किंविशिष्टेन मद्यविधिना? इत्यत आर.
अणेगबहुविविहवीससापरिणयाए' इति न एकः अनेकः, तत्रानेकः अनेकजातीयोऽपि व्यक्तिभेदाद्भवति तव आइ-बहु-प्रभूतं विविधो-जातिभेदान्नानाप्रकारो बहुविविधः प्रभूतजातिभेदतो नानाविध इति भावः, स च केनापि निष्पादितोऽपि संमान्यते तत आह -विश्रसया-वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादितो विश्रसापरिणत:, समः पदत्रयस्य पदव्यपदद्वयमीलनेन कर्मधारयः, सूत्रे च स्त्रीलनिर्देशः प्राकृतस्यात् , वे च मद्यविधिनोपपेता न ताडादिक्षा इवाङ्करादिषु किन्तु फलेषु | तथा चाह–'फलेहिं पुण्णा वीसंदंति' अत्र सप्तम्यर्थे तृतीया व्यत्ययोऽप्यासा'मिति वचनात् , फलेषु माविधिभिरिति गम्यते 'पूर्णाः