________________
अतिमुक्तकलताः कुन्दलता: श्यामलताः, एताः सुप्रतीताः, निषं कुसुमियाओ' इत्यादि विशेषणजात प्राग्वत् 'जाव पडिरूवाओ' इति।। 'उत्तरकुराए णं कुराए' इत्यादि, उसरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बायो वनराजयः प्रज्ञप्ता: कानेकजातीयानां वृक्षाणां पङ्कयो वनराजयस्तत: पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थवेति न पौनरुत्यं, ताश्च वनराजयः प्रशताः कृष्णाः कृष्णावभासा इत्यादि विशेषणजातं प्राग्वत् तावद्वक्तव्यं यावत् अणेगरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणियपद्धिमोयणाओसुरम्माओ जाब पडिरूवाओं' इति ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रवेशे बहको मत्तानका नाम ठुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, किंविशिष्टास्ते? इत्याह-यथा 'से चंदप्पभमणिसलाग' इत्यादि, यथा चन्द्रप्रभादयो मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा-त्राकाले यत्साः सा चन्द्रप्रभा, नणिशलाकेव मणिशलाका, वरं च तत् सीधु च वरसीधुर बरा च सा वारुणी च वरवारुणी 'सुजाय पुनपुप्फफलचोयनिजाससारबाहदव्यजत्तिसंभारकालसंधियआसव' इति इहासवः-पत्रादि-* वासकद्रव्यभेदादनेकप्रकारः, तथा चोक्तं प्रज्ञापनायां लेश्यापदे रसचिन्तावसरे-पत्तासवेइ वा पुरफासवेह वा फलासवेइ वा चोयासवेइ वा ततोऽत्र निर्याससारशब्दः पत्रादिभिः सह प्रत्येकमभिसम्बन्धनीयः, पत्रनियोससारः पुष्पनिर्याससारः फलनिर्याससारश्चोयनिर्याससारः, तत्र पत्रनिर्यासो-घातकीपत्ररसस्तत्प्रधान आसवः पत्रनिर्याससारः, एवं पुष्पनिर्याससारः फलनिर्याससारश्च परिभावनीयः, चोयो गन्धद्रव्यं तन्निर्याससारश्चोयनिर्याससारः, सुजाता:-सुपरिपाकागताः, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनां द्रव्याणामुपवूहकाणां युक्तयो-मीलनानि तासां संभार:-प्राभूत्यं येषु ते बहद्रव्ययुक्तिसंभारा:, पुनः कथम्भूताः' इत्याह-कालसधिय' इति कालसन्धिता: सम्धानं सन्धा काले-खस्वोचित सन्धा कालसन्धा सा संजातैषामिति कालसन्धिता, तारकादिदर्शनादि