________________
..
.
-
णीयो भूमिभागो 'वायविहुयग्गसालेहि ति वातेन विधुता:-कम्पिता वातविधुतास्ताश्च ता अप्रशाखाश्च वातविधुतापशाखास्ताभिः, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् , मुक्तो यः पुष्पपुजः स एवोपचार:-पूजा मुक्तपुष्पपुजोपचारस्तेन कलितः श्रियाऽतीव उपशोभमानस्तिष्ठति ॥ 'उत्तरकुराए ण कुराए' इत्यादि, उत्तरकुरुषु तत्र तत्र दशे तस्य २ दंशस्य तत्र तत्र प्रदेशे बहूनि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , हरुतालवनानि भेरुतालबनानि मेरुतालवनानि शालवनानि सरलवनानि सप्तपर्णवनानि पूगीफलीवनानि खजूरीवनानि नालिकेरीवनानि कुशविकुदाविशुद्धवृक्षमूलानि, ते च वृक्षाः मूलमंतो कंदमंतो इत्यादि विशेषणजातं जगत्युपरिधनषण्डकवर्णकवत्तावत्परिभावनीयं यावद् 'अणेगसग-1 डरहजाणजोग्गगिल्लिथिल्लिसीयसंदमाणपडिमोयणेसु रम्मा पासाईया दरसणिज्जा अभिरूवा पडिरूवा' इति, मेरुतालादयो वृक्षजातिविशेषाः शालादयः प्रतीताः ॥ "उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुधु कुरुपु तत्र तत्र देशे तस्य नस्य देशस्य तत्र तत्र प्रदेशे बब उहालाः कोहाला मोहालाः कृतमाला नृत्तमाला वृत्तमाला दन्तमालाः शृङ्गमालाः शङ्खमाला: श्वेतमाला नाम 'दुमगणाः' द्वमजातिविशेषसमूहाः प्राप्ताः तीर्थकरगणधरैः हे श्रमण! हे आयुष्मन् , ते च कथम्भूता: इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहुवस्सिलका लवकाः छत्रोपगा: शिरीषाः सप्तपर्णा: लुब्धा: धवा: चन्दना: अर्जुना: नीपा: कुटजाः कदम्बाः पनसाः शालाः तमालाः प्रियाला: प्रियङ्गवः पारापता राजवृक्षा नन्दिवृक्षाः, तिलकाद्यो लोकप्रतीताः, एते कथम्भूताः इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि सर्व प्रारबद् यावत् 'पडिमोयगा सुरम्मा' इति ॥ 'उत्तरकुराए णं कुराए इत्यादि, उत्तरकुहषु कुरुप तत्र तत्र देशे तस्य तस्य वेशस्य तत्र तत्र प्रदेदो बयः पालता नागलता अशोकलताश्चम्पकलताञ्चतळता वनलता वासन्विकलता