________________
सवर्णकवतावद्वक्तव्यं यावत्तृणानां च मणीनां च वर्णो गन्धः स्पर्शः शब्दश्च सवर्णकः परिपूर्ण उक्तो भवति, पर्यन्तसूत्रं चेदम् --
दिवं नटुं सज्ज गेयं पगीयाणं भवे एयारूवे?, हंसा सिया' इति॥ 'उत्तरकुराए णे कुराए' इत्यादि, उत्तरकुरुपु तत्र तत्र देशे तस्य देशस्य | | तत्र तत्र प्रदेशे बहवे 'खु
'वावीओ इत्यादि, तथा त्रिसोपानप्रतिरूपकाणि तोरणानि पर्वतकाः पर्वतकेष्वासनानि गृहकाणि गृहेष्वासनानि मण्डपका मण्डपेषु पृथिवीशिलापट्टकाः पूर्ववद् वक्तव्याः, तदनन्तरं चेदं वक्तव्यम्-'तत्थ णं बवे उत्तरकुरा मणुस्सा मणुस्सीओ य आसयंति सयंति जाव कल्लाणं फलवित्तिविसेसं पञ्चणुभवमाणा विहरन्ति' एतद्व्याख्याऽपि प्राग्वत् । 'उत्तरकुराए णं भंते! कुराए' इत्यावि, उत्तरकुरुषु णमिति पूर्ववत् कुरुपु तत्र तत्र देशे 'तहिं तहिं' इति तस्य तस्य देशस्य तत्र तत्र :देशे बहवः सरिकागुल्माः नवमालिकागुल्माः कोरण्डगुल्मा: बन्धुजीवकगुल्मा: मनोवद्यगुल्माः बीयकगुल्मा: बाणगुल्मा: (कणवीरगुल्माः) कुब्जकगुल्माः सिन्दुवारगुल्माः जातिगुस्माः मुद्रगुल्मा यूधिकागुल्माः मल्लिकागुल्मा: वासन्तिकगुल्माः बस्तुलगुल्मा: कस्तूलगुल्माः सेवालगुल्माः अगस्त्यगुल्माः मगदन्तिगुल्मा: चम्पकगुल्माः जातिगुल्माः नवनातिकागुल्माः कुन्दगुल्मा: महाकुन्दगुल्माः, सरिकादयो लोकत: प्रत्येतव्याः, गुल्मा नाम इखस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, ततः सर्वत्र विशेषणसमासः, सरिकादीनां चेमास्तिनः सनहणिगाथा:-"सेरियए नोमालियकोरंटयबन्धुजीवगमणोजा । बीययवाणयकणवीरकुज तह सिंदुबारे य ॥ १ ॥ जाईमोग्गर वह जूहिया य तह मल्लिया य वासंती । वत्थुलकरथुलसेवालगत्थिमगदंतिया घेव ॥ २ ॥ घंपकजाईनवनाइया य कुंदे तहा महाकुंदै ।।। एवमणेगागारा हवंति गुम्मा मुणेथव्वा !॥ ३ ॥" 'ते णं गुम्मा' इत्यादि, 'ते' अनन्तरोदिता गमिति वाक्यालकारे गुल्माः 'दशार्द्धवर्ण पश्चवर्ण 'कुसुमं' जातावेकवचनं कुसुमसमूह 'कुसुमयन्ति' उत्पादयन्तीति भावः, येन कुसुमोत्पादनेन कुरूणां बहुसमरम