SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे मन्दरपर्वतस्य 'उसरेण' उत्तरतः नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पुरत्थिमेणं'ति पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायाम् ' अत्र' एतस्मिन् प्रदेशे उत्तरकुरवो नाम कुरवः प्रज्ञप्ताः सूत्र एकवचननिर्देशोऽकारान्ततानिर्देश प्राकृतात्, ताश्च कथम्भूताः ? इत्याद— 'पाईणे' व्यादि, प्राचीनापाचीनायता उदग्दक्षिणविस्तीर्ण अर्द्धचन्द्रसंस्थानसंस्थिता एकादश योजनसहस्राण्यष्टौ योजनशतानि 'द्विचत्वारिंशानि' द्विचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागी योजनस्य " विष्कम्भेन" दक्षिणोत्तरतया विस्तारेण, तथाहि - महाविदेद्दे मेरोरुत्तरस उत्तरकुरवो दक्षिणतो दक्षिणकुरवः, तत्तो यो महाविदेहक्षेत्रस्य विष्कम्भस्तस्मान्मन्दरविष्कम्भे शोधिते यदवशिष्यते तस्यार्द्धं यावत्परिमाणमेतावत्प्रत्येकं दक्षिणकुरूणामुत्तरकुरूणां च विष्कम्भः पक्कं च - "वइदेहा त्रिक्खंभा मंदरविक्खंभसोहियद्धं जं । कुरुविक्खंभं जाणसु" इति, स च यथोक्त प्रमाण एव, तथाहि - महाविदेहे विष्कम्भस्त्रयत्रिंशद् योजन सहस्राणि षटू शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कलाः ३३६८४ क० ४, एतस्मान्मेरुविष्कम्भो दश योजनसहस्राणि शोध्यन्ते १०००० स्थितानि पश्चात्रयोविंशतिः सहस्राणि षट् शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कलाः २३६८४ क० ४, एतेषामर्द्धे लब्धान्येकादश सहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानां द्वे च कले ११८४२ ० २ ।। 'ती' इत्यादि, तासामुत्तरकु रूणां जीवर उत्तरतो नीलवर्षधरसमीपे प्राचीनापाचीनायता उभयतः पूर्वपश्चिम भागाभ्यां वक्षस्कारपर्वतं यथाक्रमं माल्यवन्तं गन्धसादनं च 'स्पृष्टा' स्पृष्टवती, एतदेव भावयति - 'पुरत्थिमिल्लाए' इत्यादि, पूर्वया 'कोट्या' अग्रभागेन पूर्वे वक्षस्कार पर्वतं माल्यवदभिधानं 'स्पृष्टा' स्पृष्टवती 'पश्चिमया' पश्चिमदिगवलम्बिन्या कोट्या पश्चिमवक्षस्कारपर्वतं गन्धमादनाख्यं स्पृष्टा सा च जीवा
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy