________________
ततस्तस्य विजयस्य देवस्यापरोत्तरेण-अपरोवरस्यां दिशि एवमुत्तरस्यामुत्तरपूर्वस्यां दिशि च चत्वारि २ सामानिकदेवसहस्राणि चतुर्षु भद्रासन सहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि चतस्रोऽप्रमहिष्यश्चतुर्षु भद्रासनेषु निषीदन्ति ततस्तस्य विजयस्य देवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अष्टासु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य दक्षिणस्यां दिशि मध्यमिकायाः पर्षदो दश देवसहस्राणि दशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि वा ह्यायाः पर्षदो द्वादश देवसहस्राणि द्वादशसु भद्रासन सहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि सप्तानीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य सर्वतः समन्तात् सर्वासु दिक्षु सामस्त्येन षोडश आत्मरक्षकदेव सहस्राणि षोडशसु भद्रासन सहस्रेषु निषीदन्ति तद्यथा - चत्वारि सहस्राणि चतुर्षु भद्रासनसहस्रेषु पूर्वस्यां दिशि एवं दक्षिणस्यां दिशि एवं प्रत्येकं पश्चिमोत्तरयोरपि । ते चामरक्षाः सन्नद्धवद्धवर्मिंतकवचाः, कवचं - तनुत्राणं वर्म - लोहमयकुतूलिकादिरूपं संजातमस्मिन्निति व र्मितं सन्नद्धं शरीरे आरोपणात् बद्धं गाढतरबन्धनेन बन्धनात् वर्मितं कवचं यैस्खे सन्नबद्धवर्मिंतकवचाः, 'उप्पीलियखराखणपड़िया' इति उत्पीडिता - गाढीकृता शरा अस्यन्ते - क्षिष्यन्तेऽस्मिन्निति शरासनः - इषुधिस्तस्य पट्टिका यैरुत्पीडितशरासनपट्टिकाः 'पिणद्ध गेवेज्जविमलवर चिंधपट्टा' इति पिनद्धं मैवेयं श्रीवाभरणं विमलवरचिह्नपट्टश्च यैस्ते पिनद्धबरमैवेयविमलवर चिह्नपट्टा : 'गहिउपहरणा' इति आयुध्यतेऽनेनेत्यायुधं - खेटकादि प्रहरणं - असिकुन्तादि, गृहीतानि आयुधानि प्रहरणानि च यैस्ते गृहीतायुध| ग्रहरणा: 'त्रिनतानि' आदिमध्यावसानेषु नमनभावात् 'त्रिसन्धीनि' आदिमध्यावसानेषु सन्धिभावात् वज्रमयकोटीति धनूंषि अभिगृप 'परियाइयकंड कलावा' इति पर्यात्तकाण्डकलापा विचित्र काण्ड कलापयोगात् केचित् 'नीलपाणय' इति नीलः काण्डकलाप