SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ततस्तस्य विजयस्य देवस्यापरोत्तरेण-अपरोवरस्यां दिशि एवमुत्तरस्यामुत्तरपूर्वस्यां दिशि च चत्वारि २ सामानिकदेवसहस्राणि चतुर्षु भद्रासन सहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि चतस्रोऽप्रमहिष्यश्चतुर्षु भद्रासनेषु निषीदन्ति ततस्तस्य विजयस्य देवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अष्टासु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य दक्षिणस्यां दिशि मध्यमिकायाः पर्षदो दश देवसहस्राणि दशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि वा ह्यायाः पर्षदो द्वादश देवसहस्राणि द्वादशसु भद्रासन सहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि सप्तानीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य सर्वतः समन्तात् सर्वासु दिक्षु सामस्त्येन षोडश आत्मरक्षकदेव सहस्राणि षोडशसु भद्रासन सहस्रेषु निषीदन्ति तद्यथा - चत्वारि सहस्राणि चतुर्षु भद्रासनसहस्रेषु पूर्वस्यां दिशि एवं दक्षिणस्यां दिशि एवं प्रत्येकं पश्चिमोत्तरयोरपि । ते चामरक्षाः सन्नद्धवद्धवर्मिंतकवचाः, कवचं - तनुत्राणं वर्म - लोहमयकुतूलिकादिरूपं संजातमस्मिन्निति व र्मितं सन्नद्धं शरीरे आरोपणात् बद्धं गाढतरबन्धनेन बन्धनात् वर्मितं कवचं यैस्खे सन्नबद्धवर्मिंतकवचाः, 'उप्पीलियखराखणपड़िया' इति उत्पीडिता - गाढीकृता शरा अस्यन्ते - क्षिष्यन्तेऽस्मिन्निति शरासनः - इषुधिस्तस्य पट्टिका यैरुत्पीडितशरासनपट्टिकाः 'पिणद्ध गेवेज्जविमलवर चिंधपट्टा' इति पिनद्धं मैवेयं श्रीवाभरणं विमलवरचिह्नपट्टश्च यैस्ते पिनद्धबरमैवेयविमलवर चिह्नपट्टा : 'गहिउपहरणा' इति आयुध्यतेऽनेनेत्यायुधं - खेटकादि प्रहरणं - असिकुन्तादि, गृहीतानि आयुधानि प्रहरणानि च यैस्ते गृहीतायुध| ग्रहरणा: 'त्रिनतानि' आदिमध्यावसानेषु नमनभावात् 'त्रिसन्धीनि' आदिमध्यावसानेषु सन्धिभावात् वज्रमयकोटीति धनूंषि अभिगृप 'परियाइयकंड कलावा' इति पर्यात्तकाण्डकलापा विचित्र काण्ड कलापयोगात् केचित् 'नीलपाणय' इति नीलः काण्डकलाप
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy